Thursday 10 November 2016

संस्कृत-लोकोक्तिः-6 अत्युच्छ्रायः पतनहेतुः

          उच्छ्रायो नाम उत्तुङ्गता, उच्चता, औन्नत्यम्। नरैः उन्नतत्वं साधनीयम्। धन-वस्तु-यशादिलौकिकविषयेषु सर्वदा स्वस्य वर्तमानस्थितेः अग्रे गमनाय यतितव्यं मानवैःकस्यचिदपि लक्ष्यस्य अभावे मनुष्यजीवनं निस्सारं, व्यर्थम्, असम्बद्धं च दृश्यते। अध्येतृणा अध्यये प्रगतिः काम्या। रक्षकेण रक्षणकार्यार्था आवश्यकशक्तिः उपचेतव्या। कलाकारेण कलायां वृद्धिः साधनीया। व्यापारिणा वाणिज्याभिवृद्धिः काङ्क्ष्या। तदर्थं धर्ममार्गेण, साधुपथा  यत्नं करणीयम्।
            किन्तु कस्यापि वस्तुनः औन्नत्यं तत् भूमिं विसृज्य, अथवा भूमेः उपरि तत् नाययति। तदा असन्तुलितस्थितौ आगते ततः प्रमादो भवेत्। अनेन तस्य वस्तुनः यदाकदाचित् अधःपतनं सम्भवेत्। वस्तुस्थितिं विस्मृत्य नरैः औन्नत्यं न साधनीयम्। पतनस्यावकाशः पापमार्गेण अथवा असाधुपथा अर्जनेनैव समुपतिष्ठति। अत्यन्तम् उत्तुङ्गो भूत्वा, पतने हेतुतायां सत्तायां मात्रेण न पतेत्। किन्तु पतनस्य अवकाशः अस्तीति, कदाचिच्च समुन्नतात् स्थानात् भूमौ पतेयुः- इति तु सदा स्मर्तव्यम्

No comments:

Post a Comment