अन्धः
किमपि द्रष्टुं न पारयति। अन्धस्य जीवनं पराधीनं भवति। सः सा वा पदे पदे नेत्रवतः
साहाय्यमपेक्षते। हस्तावलम्बः, भुजावलम्बः वा आवश्यकः। अथवा काष्ठेन चलमनास्य
कदाचित् सन्दर्भेषु सूचनमावश्यकम्। अन्धस्य अन्यानि इन्द्रियाणि सुतीक्ष्णानि
भवन्तीति वदन्ति। तथापि गहने संसारार्णवे नास्ति तादृक् स्थानं यत्र नितरां सहायकमुक्तो
विचरेत्। तस्य यदा कदाचिद्वा अन्यमनुष्यस्य साहाय्यं स्वीकर्तव्यमेव भवेत्।
गृहे सः अभ्यस्तः सन् कार्याणि
विना क्लेशं निर्वहेत्, तदापि बाह्यप्रदेशेषु मार्गगमने तस्य गमनाय
कस्यापि अवष्टम्भः आवश्यकः। यः नेत्रवान्, द्रष्टुं च पारयति, स एव
दृष्टिहीनम् अवलम्ब्य अग्रे नेतुं समर्थो भवति। यदि अवष्टम्भयिता अपि अन्धः, तर्हि
द्वयोरपि पन्थानः दर्शनाभावात्, मार्गे विद्यमानानां वस्तूनां, आटङ्कानां
ज्ञानाभावाच्च
पदाघाते सति अवश्यं विनिपातः भवति।
न
च ‘अभ्यासेन
किञ्चित् सामर्थ्यं वर्धते किल’ इति वक्तव्यं, नूतनपन्थासु अभ्यासस्य साहाय्यकत्वविरहात्। अतः
अन्धः दृष्टिवतः एव साहाय्यं स्वीकरोतु, नान्यस्यान्धस्य। तेन तस्य क्लेशः न्यूनीभवति,
गमनं च विनावघातं प्रचलति॥
No comments:
Post a Comment