Thursday 10 November 2016

संस्कृत-लोकोक्तिः-7 अन्ते या मतिः सा गतिः

            मनः चञ्चलम्। तत् कदा कां दिशं नेष्यतीति न जानाति कोऽपि। मुण्डे मुण्डे मतिर्भिन्ना। एकस्मिन्नपि शिरसि भिन्नसमयेषु भिन्नविधविचाराः जाग्रन्ति। विचारेषु क्रियमाणेषु क्षणं क्षणं विभेदः परिदृश्यते। लोके समस्याः, कष्टकरसन्दर्भाः, सामान्यविषयाः वा सर्वदा अक्लिष्टाः न भवन्ति। कदाचित् परमसङ्क्लिष्टाः, द्विधापि काठिन्यभावोत्पादकाः भवेयुः। तादृशस्थलेषु निर्णयो, निष्कर्षो वा सुलभः न वर्तते। निर्णयस्य यस्य कस्याप्याचरणेन पुनः नवा समस्यैव उत्पद्येत। तादृशस्थलेषु बहुधा विचिकित्सया समयोऽपगच्छति। अवधेरन्ते यत् निर्णीयते, तदेव अग्रे आचर्यते, विचार्यदंशस्यान्ते अन्तिमं यत् निर्णीयते, तदेव अनुष्ठीयते। तस्यैव फलमनुभवति तन्निर्णयकर्ता, भोक्तारश्च।
            कस्यचन जीवनान्तिमसमये यथा नरस्य मानसिकी स्थितिः भवति, तथा तस्य अग्रे गमनं भवति। यावान् पुरुषस्य विचारः, तावती तस्य पुनर्जन्मनि गतिः भवेत्जडभरतस्य वृत्तान्तः लोकप्रसिद्धः अस्ति। सोऽपि मृगस्य संरक्षणं कुर्वन् तस्यैव आध्याने मृतः सन् मृगजन्म अलभत। अतः सर्वदा स्मर्तव्योऽयं विषयः। भगवन्तं स्मरन् यः म्रियेत सः तमेव प्राप्नुयात्। किन्तु अन्तिमक्षणे भगवत्स्मरणं न क्रीडाविषयः। तत्स्मरणार्थं यावज्जीवम् अभ्यासं कुर्यात्।
एतदेव गीतामातुः श्लोके उच्यते-
                        यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । 
                        तं तमेवैति कौन्तेय सदा तद्भावभावितः॥ गीता, ८.६

No comments:

Post a Comment