आपः पवित्रं परमं पृथिव्यामिति
सुप्रसिद्धम्। दैनन्दिनजीवने लोके चरन्तः,
विहरन्तः मनुष्याः नानाविधस्थलेषु नानाप्रकारकान् धूल्यादिमलिनवस्तूनां सम्पर्के
पतन्ति। तत् मालिन्यं सर्वं जलेन प्रक्षालनेन अपगच्छति। वारिणा स्थूलशरीरावयवगतानि मालिन्यानि सपदि अपगच्छन्ति, गात्राणि च
परिशुद्ध्यन्ति। बहितः गृहं प्रविशन् पुरुषः
प्रथमं पादौ क्षालयति, ततः स्नात्वा परिशुद्धतामनुभवति।
मनः अपि सूक्ष्मरूपं शरीरस्य सम्बन्धि एव। तत्
स्थूलशरीरमिव अक्ष्णा न दृश्यते, परं तु अनुभवेन ज्ञायते तदस्तित्वम्। मनः भावरूपेण तिष्ठति। यत्र यत्र गच्छामः तत्र तत्र, यथा शरीरं, तथैव
मनः अपि प्रभावितं भवति। तत्र स्थितेन सूक्ष्मलोकसम्बन्धिवस्तुना मनः प्रभावितं भवति।
स प्रभावः क्रोध-नैराश्यादिभिः भावैः विचलनेन, अस्थिरतानुभवादिना ज्ञायते। अतः तस्यापि बाह्यशरीरमिव
परिशुद्धीकरणमावश्यकम्।
यतः तन्न स्पर्शयोग्यं वस्तु, अतः मनःशुद्धये किमपि स्पर्शयोग्यं
परिशुद्धकारकं वस्तु उपयोक्तुं न शक्यते। तत् सत्येन शुदध्यति। नाम सत्यवाचा, सदाचरणेन च
तद्गतानि मालिन्यानि दोषाश्च अपयान्ति॥
No comments:
Post a Comment