Thursday 10 November 2016

संस्कृत-लोकोक्तिः-21 अङ्गुलीदीपिकया ध्वान्तध्वंसविधिः


            ध्वान्तं नाम अन्धकारः। अङ्गुलीदीपिका नाम लघु वर्तिदीपः। क्षुद्रेण दीपेन अन्धकारस्य नाशः यथा इति भावः।

            ये जनाः नातिधीशालिनः, ह्रस्वबुद्धयः च केवलं भवन्ति, ते वस्तुस्थितिं अवबोद्धुं न शक्नुवन्ति। ते नातिदूरं द्रष्टुं पारयन्ति। सर्वदा अल्पप्रयत्नशीलाः च भूत्वा सर्वेषां कार्याणां समाप्तिं कर्तुं पारयामइति चिन्तयन्ति। यत्कार्यं यावतीं शक्तिं, प्रयतनं च अपेक्ष्यते, तावन्न तत्र समर्पयन्ति। प्रत्युत यदि बुधजनाः वस्तुस्थितिं ज्ञात्वा तान् वदन्ति, “अनेन कार्यं न सिद्ध्यति भोःइति, तदानीं, तेषां वचसां खण्डनमपि कुर्वन्ति एते। अवास्तविकी बुद्धिः निवर्तयितुं न शक्यते। 

            अस्यैव उदाहरणं दीयतेअङ्गुल्या यावत् लघुदीपं धर्तुं शक्यते, तावन्मात्रेण अनेन अन्धकारं सर्वं विनाशयामिइति यदि कोऽपि एवं चिन्तयति, तत् हासाय भवति। रात्रौ सम्पूर्णतया तमोनाशाय लघु वर्ति-दीपं पर्याप्तं न भवति। दीपिकायाः शक्तिः अल्पा। अधिकं दूरं प्रकाशं कर्तुं सा न पारयति। यथोक्तंएकः सूर्यः तमो हन्ति..। दीपेन केवलं अल्पस्थाने, अल्पप्रयोजनाय च तमः नश्यति। अल्पक्षेत्रे अन्धकारनाशनेन सर्वत्रापि नाशो जात इति न चिन्तनीयमिति लोकोक्तेरभिप्रायः॥  

No comments:

Post a Comment