सर्वे मनुष्याः ज्ञानिनः न भवन्ति। सर्वेषां चिन्तनशक्तिः उन्नता
न वर्तते। अनेन शुभाशुभनिर्णयोऽपि तेषां दुर्लभः। स्वस्मै अपरेभ्यश्च किं हितं
किमहितमिति मतिः तेषां न भवति। न भवतीति ज्ञानमपि तेषु नितरां हि लुप्यते। ज्ञानं
नास्तीति कृत्वा कार्याणि करणीयानि नापतेयुः इति व्यवस्था लोके नास्ति। करणीयानि
कार्याणि तु सर्वेषां वर्तन्ते। कदाचित् एतल्लक्षणाः अधिकारस्थानेऽपि भवेयुः येषां
निर्णयेन अन्येषां भाग्यं निश्चीयेत।
कदाचित् ते कार्यकरणसमये हितं करोमीति धिया अहितं यदि
कुर्युः, तर्हि तेन तेषामपि, सर्वेषामपि
हानिर्भवेत्। अतः यः ज्ञानी, पारदर्शी, वर्तमाने कृतस्य कार्यस्य भविष्यत्कालिकं प्रभावं द्रष्टुं शक्नोति,
सः अल्पज्ञैः अपृष्टः अपि सन् तस्य हितं वदेत् एव। अनुक्ते हिते,
जानन्नपि नोक्तमिति दोषः भवेत्। यदि कार्याचारी तत् शृणोति, आचरति
च, तेन सर्वेषां लाभो भवेत्। यदि नाचरति, तेन नष्टस्तु सहनीयः। किन्तु अनुक्त्वा धर्महानिं न कुर्यात्।
श्रद्धावान् भवतु न वा, एकवारं अवश्यं
प्रयतनीयमिति भावः। कर्तव्यमिति मत्या वा आचरणीयमेव। हितवचनकथनसन्दर्भाः
निष्कर्षतया एवं सन्तीति मन्ये- 1. राज्ञं प्रति मन्त्रिणः 2. शिष्यं प्रति गुरोः
3. पुत्रं प्रति पितुः 4. मित्रं प्रति मित्रस्य 5. विशेषसन्दर्भेषु। यत्र श्रोतुः
स्वभावः न ज्ञायते, तत्र सकृत् प्रयतनीयमिति मे मतिः॥
No comments:
Post a Comment