Thursday 10 November 2016

संस्कृत-लोकोक्तिः-40 अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने




            नूतनतया यत्किममपि कार्यं कर्तुं बुद्धिः, कार्यकौशल्यं, समाहितत्वं, सहनं, परसहिष्णुता, कालः चापेक्ष्यन्ते। तत्र पुरुषेण धैर्येण, शक्तियुक्तेन च भवितव्यम्। यः कमपि क्लेशं, व्ययप्रयासान् च सोढ्वा निर्माति स एव तत्र कष्टं जानाति। यन्निर्मितमस्ति तस्य विनाशाय नाधिकः काल अपेक्ष्यते।

            गृहारम्भो नाम गृहस्य निर्माणकार्यम्। गृहभञ्जनं नाम निर्मितस्य गृहस्य विच्छेदः। गृहनिर्माणं धनव्ययोपेतं, अत्यन्तं क्लेशसंयुक्तं च वर्तते। भञ्जनाय तु तत्र निर्माणापेक्षया स्वल्पिष्ठः कालोऽपेक्ष्यते।

            आधुनिककाले अस्याः लोकोक्तेः उदाहरणं- यः सद्राजकीयनेता सहृदयतया प्रजासेवां करोति, विपक्षीयाः तस्य अकारणं, दुष्टेन व्याजेन, सर्वदा दूषणं तिरस्कारं च कुर्वन्ति। तस्य कार्याणि, प्रणालिकांश्च भग्नं कुर्वन्ति। यत्र दुष्टाः किमपि कार्यमकृत्वा, अन्येषां निर्मातॄणां निष्कारणं विघ्नानि उत्पादयन्ति, तत्रेयं लोकोक्तिः प्रयुज्यते।

No comments:

Post a Comment