विद्यायाः प्रशंसा संस्कृतसुभाषितेषु सर्वत्र दृश्यते।
विद्या विनयं ददातीति, विद्यासमुपार्जनेन पुरुषः धीमान्, योग्यः, वित्तार्जनक्षमश्च
भवतीति सर्वस्यानुभवविषयः। विद्या विनयं ददातीति विनयस्य सत्त्वं विद्यायाः
सत्त्वे लक्षणं भवति। विनयो नाम गर्वाभावः। यः विद्यावान्, तस्य चिह्नमेव यत् सः फलभारेण
नम्रतरुरिव भवति। सः यावज्जानाति, तावता नालमिति मन्यते। इतोऽप्यधिकं ज्ञात्वैवाहं
पण्डितं भवितुमर्हामीति सः मन्यते। कदापि ज्ञानी ज्ञानं ममास्ति इति गर्वं
नानुभवति। मनुष्यस्य बुद्धेः परिमितिं स जानाति। बह्वध्ययनेन कुत्र निश्चयेन
वक्तव्यं, कुत्र पुनर्द्रष्टव्यमिति तस्य जागरूकता भवति।
अल्पविद्यः नाम, यस्य विद्या अल्पा,
सः। अल्पज्ञः यत्किञ्चित् जानाति, तदेव परमिति
मन्यते। सम्पूर्णं ज्ञानं न केनापि प्राप्तुमशक्यमिति स न जानीते। अतः सः स्वस्य
ज्ञानं सम्पूर्णमिति मत्वा बहुधा गर्वयति। मदान्धः भवति। महागर्व एव अल्पज्ञत्वस्य
चिह्नम्। अल्पज्ञः स्वस्य वाक्यास्य प्रभावमपि न जानाति, तत्र
दोषानपि न परिगणयति। यदि तस्य वाचा विपत्तिरापतेत्, तर्हि सः
अन्येषामुपरि तत्पातयति। गर्वं न त्यजति। अल्पज्ञस्य ज्ञानदाने यत्नः व्यर्थः इति
भर्तृहरिः नीतित्रिशतेः प्रारम्भे एव निर्धारयति॥
Thank you so much: you help me learn a lOkOkti and then learn some basic samskr^tam too! Best wishes!
ReplyDeleteDKM Kartha
Thank you so much: you help me learn a lOkOkti and then learn some basic samskr^tam too! Best wishes!
ReplyDeleteDKM Kartha