Thursday 10 November 2016

संस्कृत-लोकोक्तिः-34 एका क्रिया द्व्यर्थकरी बभूव


           लघुप्रयत्नेन अनल्पं साधयितुमिच्छति मानवः। नैषा सिसात्सा अस्य दोषः। स्वभावेन तस्य बुद्धिरेतादृशी सृष्टा। यत्किमपि कर्म क्रियमाणस्सः अनेन महान् लाभो मम भवत्विति आशास्ति। सा लाभेच्छा समस्तमानवेप्सितार्थेषु वर्तेत। व्रतनियमादिना पुण्यार्जनं, तपसाद्याचरणेन देवतानुग्रहसाधनं, वाणिज्यव्यापारादिना धनप्राप्तिः, सेवादिनिर्वहणेन यशसादिलाभः- इत्यादिरूपा नानाविधा सा इच्छा भवितुमर्हति। सूत्रं तु तत्र एकमेव- अल्पात्यल्पया शक्त्यादानेन अधिकाधिकं फलावाप्तिः। अल्पप्रयत्ने अधिकलाभः इति। अथवा प्रयत्नेनैकेन फलद्वयप्राप्तिः।
       न केवलं लोकेऽस्मिन् आधुनिके काले, अपि त्वेषा प्राचीनानामप्यासीत्। अत्र कार्यैक्ये फलद्वयस्योदाहरणमेवम्। पितृदेवेभ्यो अर्घ्यप्रदानं नित्यनियुक्तं कर्म भवति। कश्चन बटुः प्रतिदिनं जलं नीत्वा समन्त्रकम् अर्घ्यं ददन् आम्रवृक्षेषु तत् क्षिपति। अनेन जलैः प्रतिदिनं वृक्षाः सिञ्चिताः वर्धन्ते, पितॄणामप्याशीः तेनावाप्यते। अत्र सान्तः श्लोकोऽयम्
एको वटुर्दर्भकुशाग्रपाणिर्वने वनैः सिञ्चति बालचूतान् ।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥

No comments:

Post a Comment