Thursday 10 November 2016

संस्कृत-लोकोक्तिः-10 अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम्

            अभ्यासो नाम कृतस्य कार्यस्य, ज्ञातस्य विषयस्य वा पुनरावृत्तिः। अनभ्यासो नाम अभ्यासराहित्यम्। शास्त्राध्ययने सर्वदा अभ्यासोऽपेक्ष्यते। अभ्यासेनैव शास्त्रार्थः बुद्धौ स्थिरः तिष्ठति। विषयश्च सम्यगवगम्यते। अद्यतनीयः पाठः अद्यैव द्वित्रिवारं वा आवृत्त्य चेत् पठ्यते, न कदापि विस्मृतिमेष्यति। शास्त्रविषयः पारम्परिकः, शृङ्खलेव सम्बद्धः, प्रतिदिनं किञ्चित्पठ्यते। अतः ह्यस्तनस्य विषयस्य स्मरणं विना अद्यतनस्य पाठस्य अवगतिर्दुर्गमा।
            विषं नाम हानिकारकं वस्तु। अत्र सन्दर्भे तत् न वस्तुतः विषं, किन्तु तादृग्वस्तु येन कृतस्य प्रयत्नस्य सत्फलम्  अलब्ध्वा अहितं प्राप्नोति। अतः पुनःपरिशीलनं विना अधीतवस्तु नावगम्यते। अनवगमनेन विषयः अपच्यः भवति। बुद्धौ न प्रविशति। अतः तद्विषतुल्यं सम्पद्यतेअवसरे प्राप्ते, नाम, वादप्रतिवादेषु वा, विप्रतिपत्तौ वा सति, मस्तकप्रताडनेनापि विषयस्य सम्यग्स्मरणं न भवति। सति स्मरणेऽपि व्यत्यस्तः, विपरीतः वा स्मर्यते। तस्मिन् साधुताम् असाधुतां वा निर्णेतुं न पारयेत्। भ्रमे च पतेत्।
            अस्य तुलना अन्ने कृता। अन्नमपि सम्यग् जीर्णनेनैव शक्तिमुत्पादयति। अन्नस्य प्रथमं पाकः भवति, ततः हस्तेन कवलीक्रियते, ततश्च दन्तैः चर्व्यते। चर्वितस्य अन्नस्य उदरे पचनं भवति। ततः शक्तिरुत्पद्यते। यथा अद्यान्नं भुक्त्वा जीर्णमकृत्वैव श्वः पुनः खादामः, तदा गतदिनभोजनजीर्णाभावे पुनरन्नस्य उदरे पातनं इतोधिकमजीर्णाय सम्पद्यते। तदजीर्णमन्नम् उदरे विषतुल्यं भूत्वा स्वास्थ्यं नाशयति

No comments:

Post a Comment