अन्नेन जीवति प्राणी। क्षुधा एव अन्नादने कारणं प्राणिनः।
अन्ये प्राणिनस्तु स्वादुताम् अविगणय्य प्राणरक्षणार्थं जीवकर्मभावनया खादन्ति।
किन्तु मानवस्य जिह्वा स्वादुताभिलाषिनी। मानवः केवलम् उदरपोषणार्थं न भुङ्क्ते।
यदि भोजनं रुचिकरं, तदैव खादितुं शक्नोति, अन्यथा न। रुचिहीनं भोजनं कदापि जिह्वां तीर्त्वा नाग्रेसरति।
किन्तु यदा महती क्षुत्पीडा बाधते, तदा तु जिह्वा सर्वं परित्यजति। किमपि न गणयति। केवलं क्षुन्निवारणमेव
तत्र लक्ष्यम्। “क्षुधातुराणां
न रुचिर्न पक्वम्” इति खलु अभियुक्तोक्तिः। ममापि स एव
अनुभवः आसीत् कदाचित्। सत्यमेवेयमुक्तिः। तदानीम् अपक्वं, लवणहीनमपि
शाकं मह्यं बहुरुचिकरमाभात्।
तथैव यदा मनुष्यः
कार्यसिद्धये पूर्णमनस्को भूत्वा यतते, तदा तत्र कष्टं,
सुखं न गणयति। कार्यसमाप्तये तस्य क्षुधा यावत्यधिका, तावतीं कष्टनष्टादिकचिन्तां परित्यज्य सः कार्यसम्पादने मज्जति। (“कार्यातुराणां न कष्टं न नष्टं” अथवा “न सौख्यं न दुःखं” इत्यपि वक्तुं शक्येत। अन्ये जनाः
सामान्याः तं दृष्ट्वा पृच्छन्ति.. “किं तव शारीरकी मानसिकी
वा पीडा नास्ति?” तदा सः स्मित्वा वदति- “कः पश्येत् तत् सर्वम्? कार्यं खलु करणीयम्।”
इति। तस्य ध्याने सदा लक्ष्यमेव तिष्ठति। यथा
क्षुद्बाधाग्रस्तजिह्वा रुचिं परित्यजति, तथैव योगिजनाः,
ऋषयः, मुनयश्च एकाग्रचित्ताः सन्तः
कायकष्टमपरिगणय्य तपसि निमग्नाः भवन्ति॥
No comments:
Post a Comment