Thursday 10 November 2016

संस्कृत-लोकोक्तिः-36 किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्



            यत्र जीवः जन्म लभते, स वंशः एव कुलं नाम। मानवस्य गुणानां, लक्षणानां, चिन्तनस्य, स्वभावस्य च निर्मितौ अत्यधिकः प्रभावः कुलस्य भवति। तत्र मातापितृभ्यां, पितामहादिभ्यः, वंशवृद्धैश्च पालनपोषणेन सह मानवः, सच्छीलतां, संस्कारान् च शिक्षते। तत्प्राप्त्या मानवः कुलीन इति लोके विश्रुतिं भजते। कुललक्षणमेवमुक्तं शास्त्रज्ञैः-
                        आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् ।
                        निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम् ॥
            कुलीनतामाश्रित्यापि नरः कदाचित् दर्पं प्राप्नुयात्। जन्मजातस्य वंशस्य समुन्नतत्वेऽपि बहुधा नीचताम् अधमतां वा जनेषु पश्यामः। सत्कुले जातोऽपि सन् कश्चित् दुष्टः, परकण्टकश्च भवेत्। तथा सति तादृशोऽपि यदि कुलस्य नामोक्त्वा स्वस्य महत्तां उद्घुष्य गौरवादिकावाप्तये प्रयतते, तर्हि तन्न साधु। कुलमुन्नतं भवेन्नाम, परं तत्र स्वशीलस्यैवाधिक्येन महत्ता गण्यते लोकैः। अत एवोच्यते-
            किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्।
            भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकद्रुमाः॥ -मृच्छकटिकम्- ९.७

No comments:

Post a Comment