Thursday 10 November 2016

संस्कृत-लोकोक्तिः-38 उपवासाद्वरं भिक्षा



            उपवासो नाम उपोषणम्। अहोरात्रभोजनाभावः। एषः व्रतरूपेण, स्वस्थतासाधनाय, भक्तिवृद्धये, चित्तशुद्धये, पापनिवारणाय वा क्रियते। भोजनालाभे धनहीनैः तदर्जनाशक्तैश्च क्रियते। भोजनेन विना जीवाः क्षणकालमपि यापयितुं, कार्याणि कर्तुं वा अशक्ताः। अन्नाभावेन शरीरं मनश्च अत्यन्तं परिदेवयतः। पदद्वयं वा चलितुं, वक्तुं वा नरः अशक्तो भवति। इन्द्रियाणि शुष्यन्ति। गात्राणि सीदन्ति।

            भिक्षा नाम याचनम्। वस्तुनः, अन्नस्य, धनस्य वा अभावे अन्येषां तद्वस्तुधारिणां पुरतः हस्तौ प्रसार्य, ‘इदं मह्यं देहीति प्रार्थनम्। एवं अभ्यर्थ्य, बहुधा अहं क्षुत्पीडितः। कृपया मह्यं भोजनं ददातु इत्यादिभिः दीनवचनैः जनान् सकरुणं प्रष्टव्यमापतति। यः याचितः स ददातु न वा, एवं याचनेन याचकस्य मनः दुःखितो भवति। एवं याचित्वापि यदा याचितं न लभ्यते, तदानीम् आत्मा नितरां खिद्यते। 

            एवं रूपेण उपवासश्च, भिक्षा च द्वावपि अत्र क्लेशकरौ। किन्तु द्वयोः आपतितयोः भिक्षा एव तत्र वरमिति सूक्तिः। याचनेनार्जितं वा अन्नं बुभुक्षां निवारयति। शरीरं पोषयति। जीविनं रक्षति। येन केनापि (अधर्मभिन्न-)मार्गेण काले लब्धमन्नं प्राणान् धारयति।

No comments:

Post a Comment