Thursday 10 November 2016

संस्कृत-लोकोक्तिः-25 अर्थो हि लोके पुरुषस्य बन्धुः

            धनं नरस्य सम्बन्धि इव लोके रक्षति। धनेन विना सामान्यान्यपि कार्याणि दुष्कराणि, नित्यावसरवस्तूनि दुर्लभानि च भवन्ति। धनाभावे जीवनयापनं कष्टायते। धनेन विना संसारः निस्सारः। धनहीनाः, अल्पधनाश्च जनाः अन्नपानादिकाय, वस्त्रवासादिकाय च नित्यं आकुला भवन्ति। तेषां पुत्रादयः विद्यादिकं न प्राप्नुवन्ति। तेन वेतनवृत्त्यादीनि न लभन्ते। पुनः ते निर्धनाः क्लिद्यन्ति। धनस्य सत्वे एव व्यवहारनिर्वहणाय सौकर्यं भवति। बन्धुमित्रजनैः सह सम्बन्धबान्धव्यानि च सुष्ठु तिष्ठन्ति।
            सत्यम्। परं तु रूप-धन-यशादीनि लोके यावत्पुण्यं तावदेव लभ्यन्ते । येषां नितरां पुण्याभावः, तेषां कष्टान् अपाकर्तुं कोऽपि समर्थः न भवति। तद्विधानां निर्भाग्यानां साहाय्यं यदि धनिकैः क्रियते, तदानीं निर्धनेभ्योऽपि जीवनं सुकरं भवति। धनिकैः निर्धनैश्च परस्परं प्रयोजनपूर्तये यतितव्यम्

No comments:

Post a Comment