नियतिर्नाम ‘नियम्यते आत्मा अनये’ति, भाग्यं, दैवं वा - यस्मिन् नरस्य अधिकारो नास्ति, यत्र पुरुषस्य स्वेच्छा
न प्रवर्तते, तादृशः पूर्वनिर्दिष्टः कश्चित् नियमः यमनुसृत्य
लोके मनुष्यजीवने कार्याणि सञ्चलन्ति। तेन प्राणिनः कदाचित् सुखं कदाचिच्च दुःखमनुभवन्ति।
सर्वे प्रायः एवं वदन्ति- ‘पुरुषस्य भाग्यं देवोऽपि न जानाति’
इति। केचित्तु भाग्यं नाम किमपि नास्ति, कदाचित्
अकर्मण्यत्वं गोपयितुं इत्थमुच्यते इति वदन्ति।
“मनुष्यः स्वयमेव भाग्यनिर्माता” इति विवेकानन्दः कथयति।
यन्मनुष्यः पूर्वस्मिन् काले आचरति, तस्यैव फलं भाग्यरूपेण परिणमते
इति। तेन पूर्वजन्मनि आचरितं कर्मसञ्चयं यद्भवति, तस्य फलमिदानीं
सुखदुःखरूपेणानुभूयते पुरुषेण। अस्यार्थः- यदिदानीमाचरामः, तस्य
फलं अग्रे भविष्यतीति यावत्। अद्याचरितं कर्म परे भाग्यं भविष्यति। यत्पूर्वमाचरितं
तन्निष्कर्तुं कोऽपि न प्रभवति इति मात्रमस्याः लोकोक्तेरर्थः।
No comments:
Post a Comment