यः चित्ते स्थितमज्ञानान्धकारमपनयति, ज्ञानप्रकाशं प्रति
मनः नयति, सः गुरुः। गुरुमहिमा भारतीयधर्मग्रन्थेषु नैकेषु प्रसङ्गेषु
असकृदुक्तः। शिष्यः आत्मन अनुरूपं गुरुमुपगम्य तस्य पुरतः शिरः नत्वा विद्याबोधनाय
अनुरुन्धे। गुरुः तदङ्गीकृत्य तं स्वस्य निकटे प्रतिष्ठाप्य यावच्छक्ति ज्ञानं प्रददाति।
गुरुः शिष्यस्य प्रगतिं कामयन् तस्मै कार्यनिर्देशनं करोति। तत् सर्वं शिष्यस्य
हिताय भवति। किन्तु शिष्याय कदाचित् तन्न रोचेत। शिष्यबुद्धेः अल्पत्वात् तस्य निर्देशनस्य
आन्तरङ्गिकः भावः तेन न ज्ञायेत। क्लिष्टकरं, शरीरपीडाजनकं वा
कर्म तं शिष्यं तस्मिन् कार्ये अप्रवृत्तये प्रेरयेत्। तावन्मात्रेण शिष्यः ‘गुरुः मां वृथा एवमाचरितुं चोदयति। एतन्मम इष्टाय न। इति विचिन्त्य तस्मात्
कर्मणः निर्वर्तेत। तदा न करणीयमिति, तां सदा अविचार्य एव पालनीयमिति
अस्याः लोकोक्तेरुद्देश्यः। गच्छता कालेन शिष्यः गुरोः अनुग्रहेण आत्मविकासं सम्प्राप्य
गुरोः अन्तरङ्गं ज्ञात्वा सर्वं स्वहितानुगुणमेवासीदिति अवगच्छति।
यदि कदाचित् कश्चन दुष्टः गुरुः अधार्मिकं किञ्चित् कर्म यदि आज्ञापयति,
तर्हि तन्न कदापि करणीयं शिष्येन। तत्र इयं शास्त्राज्ञा लङ्घनीया एव।
No comments:
Post a Comment