तृषा, तृष्णा वा नाम जलपानेच्छा, पिपासा। कदाचित्
रोगविशेषमपि वाचयति। विस्तृतार्थे स शब्दः लिप्सार्थे, अप्राप्ताभिलाषार्थे,
लोभार्थे च प्रयुज्यते।
यदि नरः किमपि वस्तु
वाञ्छति, तत्प्राप्तुं कामयते, तर्हि
तदर्थं प्रयतते। यत्र प्राप्तिः सम्भवति, तत्र न कापि हानिः।
आनन्दाय एव कल्पते। किन्तु, वस्तुनः अप्राप्तिः दुःखाय,
खेदाय च भवेत्। यदि तृष्णा सामान्या, तर्हि
वस्तोरलाभेन नरः किञ्चित् खिद्येत, पुनः काले गतौ समस्थितिं
च प्राप्नुयात्। परं, यत्र अपरिमिता तृष्णा, तत्र अनिरुद्धं प्रयतनं भवति। वस्तुनः अनवाप्तौ खेदोऽपि अतिरिच्य भवेत्।
तेन स दीर्घकालपर्यन्तं पीडामनुभवन् दुःखितो भवेद्येन तस्य जीवने कार्यशीलता
नश्येत्। अतः अतितृष्णा न कर्तव्या।
यदि तृष्णा तावती
दुष्टा, तर्हि किमर्थं न परित्यजेदिति वदति? तत्र समाधानमिदम्– अति सर्वत्र वर्जयेत्। अति
परित्यज्य कामनां कुर्यात्। तृष्णा यदि नितरां दुष्टा तर्हि सामान्येऽपि नरेषु
कुतो दृश्यते सा? तृषां सर्वथा विहाय जीवितुं सामान्याः न
शक्नुवन्ति। अतः स्वल्पा तृष्णा तु जीवननिर्वाहाय वस्तुप्राप्त्यर्थं चावश्यकी एव।
परिमितिमतिरिच्य न किञ्चित् गुणं गुणं भवति। परिमितौ सर्वं सदुपयोगि एव॥
No comments:
Post a Comment