Thursday 10 November 2016

संस्कृत-लोकोक्तिः-14 आतुरे नियमो नास्ति

            आतुरो नाम रोगी। नियमः नाम व्यवहारेषु धर्मादिपूर्णम् आचरणम्। शरीरमाद्यं खलु धर्मसाधनम्। रोगी रुजापीडितः शरीरेण अशक्तः दुर्बलश्च भवति। सः कांश्चन नियमानपि आचरितुं न समर्थः। अतः यावत् सः स्वस्थः न भवति, तावत् तस्मिन् नियमानां भारः न स्थापनीयः। सामान्यविशेषादिधर्मान् स आचरितुं न शक्नोति। अनाचरणेन सः पापभाक् न भवति इति स्मृतिः। स्वस्थः धर्मानाचारेण आलस्येन अभिभूतस्सन् पापकूपे पतेत्, किन्तु रोगी पूर्वमेव पीडामनुभवन् ततोधिकश्रमेण रोगाधिक्यमनुभवेत्।
            लोलुपः, लालसः, सातिशयः इति आतुर शब्दस्य अन्यः अर्थः। क्षुधातुरः, कामातुरः इत्यादिविधेन आतुरत्वं व्यज्यते। व्यग्रत्वेन पीडितः सन् आतुरपुरुषः अनियन्त्रितः भवति। अतः तस्य नियमविषयकश्रद्धा न भवति। यद्वाञ्छितं स विषयः तेन सद्यः प्राप्नोतु इत्येव तस्य वस्तुस्थितिः भवति। अतः नियमान् सः न लक्षयति।
            अनयोः द्वयोः प्रथमः एव स्मृतिवाक्यस्यार्थः। द्वितीयस्तु लोकपरिशीलनेन अवगतः ॥

No comments:

Post a Comment