महान्ति कार्याणि कदापि सपदि न समाप्तिं यन्ति। कार्यं महदिति मत्वा आरम्भे
एव अधिकं क्रियते चेत् तस्मिन् भयमुत्पद्येत। प्रथमे दिने उत्साहेन सर्वे अधिकं
कार्यं कुर्युः, किन्तु “आरमभ्गुर्वी
क्षयिणी क्रमेण” इतिवत् कार्ये क्रमशः ह्रासो भवेत्।
कतिपयदिनानन्तरं सर्वं स्थगितं भवेत्।
प्रथमं कार्यस्य अल्पभागेषु विभाजनं भवतु। प्रतिदिनं कियत् करणीयमिति गणना
भवतु। यथाशक्ति, यावत्सामर्थ्यं, यथाकौशलं
तदनुष्ठातव्यम्। क्रमेण कार्यकरणे प्रतिकूलान् विषयान् परिशील्य अग्रे गन्तव्यम्।
प्रतिकूलतान् दृष्ट्वा न भेत्तव्यम्। तेषां अनुकूलनाय प्रयतितव्यम्। स्वस्य
दक्षतायाः, परिस्थितेः, कालस्य च
सम्यगवगतिर्भवतु। एवं अल्पारम्भेण कार्ये ये साधकबाधकाः सन्ति, तेषां विषये अवबोधो भवति। अतः अल्पारम्भः क्षेमकरः इति अनुभवज्ञा वदन्ति।
No comments:
Post a Comment