जीवननिर्वाहाय बहूनि गृहोपयोगि-देहोपयोगि-वस्तूनि आवश्यकानि। वस्तु विना यस्यकस्यापि
जीवनं कठिनं भवति। गृहे स्थातुं, जीवनं निरोढुं, शरीरभरणपोषणाय च अन्नवस्त्रादिकं सर्वं धनेनैव प्राप्यते। विद्यार्जनायापि
धनमावश्यकम्। स्वकुटुम्बनिर्वहणाय, अतिथिसत्कारादिकाय,
दानधर्माद्याचरणाय, लोके कुत्रापि यानादिकेषु गमनागमनाय,
रोगे सति तदुपशमनायौषधमपि धनेनैव प्राप्यते।
निर्धनता नाम धनहीनता। धनस्याभावः लोके महाक्लेशकारी। वित्तराहित्यं समस्तवस्तुप्राप्तौ
समस्यान् जनयति। गृहे दारापुत्रादयः क्षुत्पिपासाकुलाः, वस्त्रविद्याद्यभावात्
खिन्नाः तं धनहीनं नरं निन्दन्ति, भर्त्सयन्ते च। गृहात् बहिः,
समाजे, जनसमूहे, बन्धुगणानां
मध्ये, यत्रकुत्रापि धनहीनस्य आदरो न भवति। न कोऽपि तं मनुष्यरूपेण
गणयति। तं विवाहादिशुभकार्येषु, जनसंसत्सु च नाह्वयति। अनेन मनः
क्लिश्यते। नितरां कष्टायते। अतः ‘धनं मूलमिदं जगत्’
इत्युच्यते। सर्वा आपदः धनाभावादेव जायन्ते इति निश्चप्रचम् ॥
No comments:
Post a Comment