Thursday 10 November 2016

संस्कृत-लोकोक्तिः-30 अनाथो देवरक्षितः



            अनाथो नाम यस्य न कोऽपि परिपालकः परिपोषको वा। न नाथः यस्य स अनाथः। मातृपितृविहीनः अनाथ इत्युच्यते। माता बालं पोषयति, वर्धयति, लालयति च। पिता बालं रक्षति, शिक्षयति, अनुशास्ति च। यस्य पितरौ न स्तः, तस्य रक्षकः परमात्मा एव। लोके सः दैवशक्त्या रक्ष्यते। यस्य कोऽपि बन्धुर्नास्ति तस्य बन्धुः दैवमेव। अथवा यस्य भाग्यं बलवत्, सः अनाथो भूत्वापि न कष्टान्यनुभवति। यः कोऽपि तं वर्धयति, पालयति च।

            महापुरुषैः एवमप्युच्यते वस्तुतः अनाथो नाम न मातृपितृविहीनः, अपि तु भगवद्बलविहीनः। लोके भगवान् यस्य रक्षकः, सः न कदापि अनाथो भवितुमर्हति। मातापितरौ भवतां न वा, गृहं भवतु न वा, यः भगवन्तं शरणं व्रजति, तस्य न कदापि हानिर्भवति। केचिदेवमपि वदन्ति सन्मित्रैर्विहीनः, सत्साङ्गत्यविहीनश्च अनाथ इति।

No comments:

Post a Comment