Thursday 10 November 2016

संस्कृत-लोकोक्तिः-43 अधिकस्याधिकं फलम्

           यद्यावत् क्रियते तस्य तावत् फलम्। अधिकं कुर्मः अधिकं प्राप्नुमः। ध्येयमार्गे प्रयत्नाधिक्येन लक्ष्यं, कार्ये श्रमाधिक्येन धनं, अध्ययनाधिक्येन विद्यां कलां च नरः अधिगच्छति। बाल्ये यः अधिकम् उद्यमशीली, सः प्रौढो भूत्वा स्वस्य कार्यक्षेत्रे कुशलः, दक्षश्च भूत्वा लोके धन-कीर्ति-वस्तु-सुखार्जनमार्गान् च निःसन्देहं सुसरलं प्राप्नोति।
            परं तु अति सर्वत्र वर्जयेदिति कुत्रचिदुच्यते। अधिकं क्रियते चेदधिकं फलमिति अन्यत्र। तर्हि कथमत्र परिहारः? अति-अधिकयोः अन्तरमस्ति। अति नाम सीम्नः पारं गत्वा, शक्तिमतिक्रम्य, प्रकृतेः (निसर्गस्य) नियमभङ्गं कृत्वा चाचरणम्। अधिकं नाम यावच्छक्ति यत्क्रियते ततोऽधिकं, ततः किञ्चित् क्रमशः अग्रे गत्वा, विस्तरणमात्रं, येन मर्यादाविच्छेदो न भवति।
            कदाचित् उच्यते, भक्ति-अध्ययन-ध्यान-तपः-पूजादिषु यदि कोऽपि साधकः अधिकं प्रवर्तेत, तर्हि अति मास्तु इति। किन्तु तत्र साधकस्य शक्तिः, निवारकस्य शक्तिश्च भिद्येते। प्रायस्तत्र साधकः केवलं अधिकं करोति, ‘अति न भवेत्- इति निवारकः जानातु। 

No comments:

Post a Comment