Thursday 10 November 2016

संस्कृत-लोकोक्तिः-41 उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः


      लोके बहुविधानि कार्याणि भवन्ति। कानिचन क्लिष्टानि, कानिचिच्चाक्लिष्टानि । सुलभकार्याणां साधने न कोऽपि उपतापः। किन्तु क्लेशसंयुक्तकार्याणां संसिद्धिमार्गे विघ्नाः आपतन्ति। तादृशे स्थितौ विघ्नहरणप्रयतनविधानं दृष्ट्वा कः समर्थः, कश्च नेति लोको पश्यति। केचन सदा बाहुबलमेव संकटान् हरतीति विश्वसन्ति। किन्तु न सः सार्वकालिकमार्गः। कदाचित् वचनमात्रलाघवेन कार्यं सफलं भवेत्।
            उपायो नाम किमपि कार्यं साद्धुं सरलः मार्गः। शत्रूणामाक्रमणाय चतुर्विधोपायाः साम-दान-भेद-दण्डाः उक्ताः। कार्यसाधकाः विविधोपायवन्तः। ते साधनीयकार्यं विविधैः कोणैः परिशीलयन्ति। तस्य स्थितिं गतिं च परिगणय्य, सम्यगवगाह्य, पूर्वानुभवेनार्जितं परिज्ञानं सम्प्रयुज्य विघ्नानि अतिक्रम्य अग्रे सरन्ति। एतदेव अस्यां लोकोक्त्यां तात्पर्यम्। (पञ्चतन्त्रस्थमिदं वाक्यम्)। 

No comments:

Post a Comment