कवयः क्रान्तदर्शिनः। कव स्तुतौ वर्णने च। यः स्तौति, वर्णयति सः कविः। कविः सामान्यजनैः दृश्यमानाः एव वृत्तीः पश्यति। किन्तु तस्य
दृष्टिः भिन्ना भवति। जीवने घटितेषु घटनेषु यद्यद् हृदयस्पर्शितं, सः तस्मै प्रतिस्पन्दते। तदक्षिपुरतः यद्यद् आकलयति तत्तत् सः स्वकल्पनया चित्रित्वा
विलोकते। तस्य मनसः भिन्नशक्तित्वात् सर्वं स्थावरजङ्गमं वस्तुजगत् तस्य भावनानां वर्णचित्रमिव
भवति।
न केवलं तत्, कविः घटितेन अघटितं, व्यक्तेन अव्यक्तं, उक्तेन अनुक्तं च ज्ञातुं पारयति।
सः हृदयान्तर्वर्तिनः मनोधर्मान्, चेतोविकारान् वा अनायासेन स्वयमेव
अनुभवन्निव अवगच्छति। सः बालानां, वृद्धानां, स्त्रीणां, पुरुषाणां, ग्राम्यानां
नागरिकाणां च, न केवलं मानवानां अपितु पशूनामपि, किं चेतनानां, अचेतनानामपि चित्तान्तःस्पन्दानां ज्ञाता
भवति। तस्य स्वनिगूढहृहयमर्माणां संज्ञानमेव तम् अन्येषामपि अन्तर्वेगान् अधिगन्तुं
समर्थं करोति। अत एवोच्यते- ‘यत्र न गच्छति रविः, तत्र गच्छति कविः’ इति। कवयः सर्वं यद्वाञ्छितं
तद्द्रुष्टुं क्षमाः।
No comments:
Post a Comment