Thursday 10 November 2016

संस्कृत-लोकोक्तिः-15 अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति

            लोके मनुष्यस्य गतिः त्रिविधमार्गेषु भवति। सन्मार्गः, कुमार्गः, सामान्यमार्गश्चेति । पण्डिताः, अनुभवज्ञाः, सच्छीलाश्च पुरुषाः सन्मार्गगामिनः भवन्ति। साधारणलोकः प्रायः सामान्यमार्गनुगामी भवति। द्वयोरपि मार्गयोः गमने क्लेशः नास्ति। किन्तु दुष्टाः दुर्जनाः अपमार्गे गच्छन्ति। अत्र अपन्थाः नाम कुमार्ग एव। आचरितस्य प्रत्येकं कर्मणः फलमवश्यं भवति इति संसारेऽस्मिन् नियमः। शुभकर्मणः शुभफलं, दुष्टकर्मणश्च पुनः अनीपिस्तं फलम्। सत्यं ज्ञात्वा मार्गः अनुस्रियते जनैः। ये पुण्यफलमिच्छन्ति, ते दुष्टसङ्गं न कुर्वन्ति।
            सोदरो नाम जन्मत एव बन्धुः। स जन्मादारभ्य जानाति, भ्रातरं सबाह्याभ्यन्तरम्। सत्सोदरः सर्वकर्मसु भ्रात्रा सह तिष्ठति, तं सहकरोति च। किन्तु यावत् सः सर्वैः सम्मतो यः, तन्मार्गे गच्छति, तावत्पर्यन्तमेव। भ्राता कुमार्गमनुसरति चेत् सोदरोऽपि तेन सह न गच्छति। यतो हि कुमार्गगमनेन, अधर्माचरणेन च तस्य पापं वर्धेत। अतस्तं त्यजति। अस्योदाहरणं विभीषणः। रावणः अधर्ममाचरतीति सः ज्येष्ठं, अग्रजं तं वारं वारम् अपवारयति तस्मात् पापात्। किन्तु क्रुद्धः रावणः, दुग्धं पीत्वा यः विषं ददाति, तत्सर्पवत् प्रवर्तते। अतः विभीषणः रामं शरणं व्रजति। अतः सोदरेण त्यागात् वरं, सामान्यमथवा सन्मार्गानुगमनमिति लोकोक्तेरस्याशयः॥

No comments:

Post a Comment