अति सर्वत्र वर्जयेदिति सुप्रसिद्धा अभियुक्तोक्तिः। स्नेहो नाम सुहृद्भावः।
स्नेहभावेऽपि अतिवर्तनं न कर्तव्यमिति भावः। अतिवर्तनेन अतिभावेन वा स्नेहे फलं
पापशङ्कारूपेण उत्पद्यते। सर्वेषां स्वस्य मानसिकसंस्थानपरिधिः वर्तते। मनसि कं
कुत्र स्थापनीयं, कियत् स्थानं कस्मै दातव्यमित्यादि तत्तद्व्यक्तिगतो
निर्णयः भवति। तदनुगुणं सः अन्यैः सह व्यवहरति। यदि कोऽपि कापि वा उद्दिष्टस्य
स्थानस्य अतिक्रमणं कृत्वा अन्तः आगन्तुं प्रयतते, तर्हि ‘किमर्थमेषः मया सह तावन्तं सुहृद्भावं प्रदर्शयति? किं वा वर्तते अस्य मनसि? अपि अग्रे मया कमपि लाभमिच्छेत्, अथवा मां कामपि हानिं कर्तुमिच्छति? कोऽस्य
उद्देश्यः?’ इति अकारणं स्नेहप्राप्तुः
स्नेहदातृप्रति सन्देहो जायते। अतः स्नेहः शनैः शनैः वर्धिर्तव्यः।
अस्या एव लोकोक्तेः अन्योऽर्थः— यदा
कस्मिंश्चित् सुहृद्भावपात्रे स्नेहः अधिकः वर्तते, तदा सः यत्किमपि करोति, तस्य प्रभावः स्नेहदातुः उपरि पतति। ‘एष मम, न
कस्याप्यन्यस्य..’ इत्यादयो भावाः मनसि उद्भवन्ति। यदा
कदाचित् येन
केनापि कारणेन स्नेहपात्रं स्नेहदात्रा यथापेक्षितं तथा न व्यवहरति, तदा स्नेहदाता बहुधा तं शङ्कते, निन्दति, दुःखयति च। अतः अतिस्नेहः कस्याप्युपरि न भवेदिति भावः॥
No comments:
Post a Comment