Thursday 10 November 2016

संस्कृत-लोकोक्तिः-20 अङ्गुल्यग्रे करिणां शतम्

            पशुभ्यः मनुष्यस्य वचनशक्तिः व्यतिरिच्यते। व्यक्तावाक् मनुष्यो वदति। तत्र सः सत्यं वदेत्, असत्यं वा, स्वतन्त्रः भवति। सत्यवचनमिति मत्वा कदाचित् असत्यमपि सः वदेत्। स्वबुद्धेः परिणतिमनुसृत्य नरा विचारशक्तिं धरन्ति, वचनानि च जल्पन्ति। कदाचित् अज्ञानवशात्, पुनः अनुभवज्ञानविरहात्, लोकज्ञानाभावात् वा मनुष्यः भ्रमाविष्टः सन् असम्बद्धवचनं वदेत्। कदाचित् केवलमहङ्काराभिभूतः सन् वस्तुस्थितिं विस्मृत्य व्यवहरेत्। भूम्यां स्थित्वा आकाशे डयमान इव वचनानि स वदेत्।
            यत्र शक्तिहीनः सन् कोऽपि शक्तिमदिव रूपयति, तत्र लोकोक्तिरियं प्रयुज्यते। कार्यनिर्वहणे नास्ति तस्य नैपुण्यं लेशमात्रम्। किन्तु, स्वस्य अदक्षतां गोपयितुं सर्वेषां पुरतः दम्भवाक्यानि वदति। मया अङ्गुल्याः अग्रभागेन करिणां शतं उत्थापितमिति प्रज्ञावचनानि जल्पति। वस्तुस्थितौ अङ्गुल्या सः सूचिकामपि नोत्थापयति। परं, ‘न केवलमेकः करी, करिणां शतं एकदैव उत्थापयामीति- तस्योक्तौ सर्वः विश्वसिति इति स चिन्तयति। बहुधा लोके तद्विधान् जनान् पश्यामः, ये तथा निरर्थकेषु जल्पनेषु प्रवर्तन्ते। अज्ञानवाशात्, अल्पत्वं गूहयितुं वा एवं अवास्तविक-स्व-स्तवं कुर्वन्ति तादृशाः जनाः

No comments:

Post a Comment