Thursday 10 November 2016

संस्कृत-लोकोक्तिः-32 किं मिष्टमन्नं खरसूकराणाम्



            मिष्टान्नं नाम मधुरपदार्थः। मधुरपदार्थो मानवेभ्यः रुचिकरं भवति। मनुष्याः पर्वदिनेषु विशेषं मधुरान्नं पक्त्वा खादन्ति। जिह्वायाः सम्पर्के जाते माधुर्यम् आनन्दं जनयति। अन्ये पशवस्तु केवलं उदरपोषणार्थं खादन्ति। तेभ्यः यत्किमपि दीयते क्षुन्निवारणार्थमेव खादन्ति। स्वादुपदार्थस्य आस्वादनं केवलं मानवः कर्तुं शक्नोति।

        इदमेवोदाहरणं मानवस्य विषये रसपूरितवाक्यानां, पद्य-गीत-संगीतादीनां चानास्वादकेभ्यः कथ्यते। यः बधिरः सः शङ्खनादं न श्रोतुं शक्नोति। भगवत्कथाः भक्तिप्रसङ्गान् च भक्तिहीनः नरः नास्वादयितुं पारयति। मूर्खः हितवाक्यानि न शृणोति। तद्विधानां पुरतः तत्तद्विषयानां प्रस्तावः पशून् मिष्टान्नं खादयित्वा स्वादस्य प्रशंसार्थं प्रतीक्षेव भवति॥


No comments:

Post a Comment