Thursday 10 November 2016

संस्कृत-लोकोक्तिः-28 असाधुजनसम्पर्के यः पलायति जीवति


           पलायनं नाम अनार्यव्यवहारः, असमर्थस्य, भीरोश्च प्रवर्तनम् इति सामान्येन चिन्त्यते। किन्तु केषुचन स्थलेषु पलायनं विना नान्यो मार्गः विवेकशीलस्य। कतिपयेषु स्थितिषु मानवमात्रः न किमपि कर्तुं शक्नोति। तत्र गतिरन्या न शिष्यते। तानि स्थलानि पलायनोचितानि, न तु सम्मुखं स्थित्वा परिष्कार्याणि।
            असाधुजनाः नाम दुष्टाः, दुर्जनाः। ते सज्जनान् अवमन्यन्ते, परिभावयन्ति, कष्टं ददति च। अन्येषाम् अकारणं पीडा, हानिः, भर्त्सना चैव तेषामानन्दस्य मुख्यकारणं भवति। ते प्रायः मूर्खाः, अशुद्धचित्ताः, पापशीलाश्च भवन्ति। तान् सुवचनैः सदुपदेशैः सदाचारेण वा साधुजनान् कर्तुं न कदापि कोऽपि पारयेत्। एवं दुष्टप्रवर्तनस्य कारणं चिन्तयितुं, अवगन्तुं, परिवर्तयितुं वा तादृशाः दुर्मनसाः न पारयन्ति। अतः यत्र दौर्मनस्ययुक्ताः असाधुजनाः दृश्येयुः तस्मात् स्थानात् सपदि अविमृश्य, अधिकं अविचिन्त्यैव पलायितव्यम्। किमपि कर्तुमकर्तुं वा न प्रयतितव्यम्। वार्तालापो न कार्यः। नाधिकं स्थातव्यम्। अत्र पलायनं विवेकलक्षणं, स्वरक्षणस्य हेतुरेव, न पुनः भीरुलक्षणम्। आत्मरक्षणं प्रथमकर्तव्यं जीवस्य। अतो न दोषाय।
सम्पूर्णः श्लोकः अत्र
उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
असाधुजनसम्पर्के यः पलायति जीवति ॥ (१९, चाणक्यनीतिसारः)

No comments:

Post a Comment