अन्नमेव मनुष्यस्य बलकारणं भवति। अन्नं परब्रह्मस्वरूपम्। अन्नविषये
तैत्तिरीयोपनिषदि सम्यगुक्तम्– अन्नेन प्राणिनः जायन्ते,
अन्नेनैव पुष्यन्ति, वर्धन्ते च। अन्नेन विना
न कोपि जीवः अधिकं कालं जीवितुं शक्यते। जलेन, वायुना च
कतिपयदिनानि अवश्यं सः जीवति। कदाचित् व्रत-तपादिषु भक्तैः, तपस्विभिश्च
अन्नं त्यज्यते। स उपवास इति कथ्यते। किन्तु अन्यदा सामान्यतया अन्नमेव शरीरस्य
बलवर्धकम्। केचन जनाः सूर्याराधनेन अन्नं विनापि जीवितुं शक्नुवन्ति। किन्तु सा
विशेषस्थितिः, न समान्या।
स्थूलशरीरस्य अन्नमयकोश इति अपरं नाम। तस्याहारं अन्नमेव भवति। अन्नस्य
देवता अन्नपूर्णा देवी। अन्नस्य कदापि वृथाकरणेन, अन्यमनस्कतया
‘स्वादु नास्ती’त्यादि-कुविमर्शनेन
अपमानं न कर्तव्यम्। क्रोधादिकारणैः जनाः अन्नं त्यजन्ति। क्षुधापीडितेभ्यः,
दीनजनेभ्यश्च अन्नदानेन महापुण्यं भवति। अन्नदानं महादानमिति
कथ्यते।
सम्पूर्णश्लोकोऽत्र दीयते–
अन्नमूलं बलं पुंसां बलमूलं
हि जीवनम् ।
तस्माद्यत्नेन संरक्षेद्बलं
च कुशलो भिषक् ॥ महासुभाषितसंग्रहः १७२१
No comments:
Post a Comment