विधिर्नाम पुरुषस्य सामर्थ्यातिवर्तिनी काचित् शक्तिः।
विधिलिखितं द्विविधकारि भवितुमर्हति- भद्रकारकं, अभद्रकारकं
च। भद्रं नाम मङ्गलकरम्। तद्विरोधि अभद्रम्। विधेः गमनं यस्यां कस्यामपि दिशायां
भवतु नाम, न कोऽपि तद्वारयितुं शक्नोति। यद्घटितव्यं तद्घटत
एव।
प्रत्येकं कर्मणः देश-काल-परिमाणादिकमाधृत्य फलमपि भवति।
ज्ञात्वा अज्ञात्वा वा, कामक्रोधादिभावैः अभिभूतः तात्कालिकं
तद्वशीभूय, अन्यथा तत्संस्कारपरो भूत्वा वा मनुष्यः
पापमाचरति। सज्जनसम्पर्के स्थितः सन् सत्संस्कारज्ञः भूत्वा पुण्यकर्माण्याचरति।
एवं पूर्वस्मिन् जन्मनि आचरितस्य सञ्चितस्य शुभाशुभकर्मणः तत्तुल्यमेव फलं
मनुष्येण अनुभोक्तव्यमेव। तदेव अस्मिन् जन्मनि विधिर्भवति। अस्मिन् जन्मनि
तत्तत्परिस्थितौ आचरितस्य कर्मणः पुनः अग्रे जन्मनि अनुभोक्तव्यं फलं तदा
विधिर्भवति। एवं व्यवस्था चलति।
अस्याः व्यवस्थायाः अभावे मनुष्यः यत्किमपि दुष्टम्
आचरित्वा पलायेत। एवं चिन्तयेद् यत् ‘अहं यद्यत् पापाचरणं
करोमि, तस्य मदुपरि कोऽपि दुष्प्रभावः न पतिष्यती’ति। एवं चिन्तित्वा स्वार्थनिहतबुद्धयः, धनलुब्धाः,
इन्द्रियोपहतचेतसः, कामलोलुपाश्च नराः
स्वप्रयोजनसिद्धये सर्वान् पीडयेयुः। चौर-द्यूत-जारकर्माणि लोके वृद्धिं यायुः। ये
सत्कर्मपराः स्वान्तःसुखाय, सर्वजनहिताय च कार्यरतास्ते
क्लिष्टतामाप्नुयुः। साधुजनाः, अहिंसारताः च लोके
दुष्टाचारपरायणैः नितरां खिद्येरन्। अतः विदिः सर्वैः अनुभोक्तव्यम्॥
No comments:
Post a Comment