Thursday 10 November 2016

संस्कृत-लोकोक्तिः-13 अर्धो घटो घोषमुपैति नूनम्

            घटः जलसञ्चयाय उपयुज्यते। जलाहरणायापि सः उपयुक्तो भवति। कदाचित् वारिणा पूर्णो भवेत्, कदाचित् अर्धः एव जलयुक्तः भवेत्। सः यदा जलेन समग्रं पूर्णः, तदा तस्मिन् शब्दः न भवति। तत्र स्थलं नावशिष्यते। स्थलाभावे वायुः अन्तः न भ्रमति। अतः वायोः आकाशस्य च आलम्बनाभावे शब्दो न भवति। यदा अर्ध एव जलः तस्मिन्, तदानीं कुम्भान्तजलस्य इतस्ततः सञ्चलनेन शब्दः भवति। स एव घोषः। 
            साधुजनानां तुलना सम्पूर्णघटेन, असत्पुरुषाणां तु अर्धपूर्णघटेन क्रियते। सज्जनमनांसि सम्पूर्णत्वेन पुष्टानि। अतः औद्धत्याभावः, मौनाश्रयणं च दृश्यते। सतां व्यवहारः शान्तः, सन्तुलितः च भवति। असत्पुरुषाणां तु मनस्सु सम्पूर्णत्वाभावात् सर्वदा चञ्चलता, प्रगल्भता च तिष्ठति। अतः असाधुः नरः स्वस्य असम्पूर्णतां गोपयितुम्, अन्तःस्थितं हीनभावं रहः स्थापयितुम्, अहंकार-वर्धनाय च बहु जल्पति। 
            लोकोक्तिरियं तमेव भावं प्रकटयति॥

No comments:

Post a Comment