यत्र कार्यस्य लक्ष्यस्य वा महत्त्वं, नरस्य
शक्तिसामर्थ्यादिकस्य परिमितत्वं च उपतिष्ठति, तत्रेयं
लोकोक्तिरुच्यते।
कालः नित्यप्रवाहशीलः। सः कदापि विरुद्धदिशि न प्रवहते। सकृदग्रे गते सति
स गतः एव। न पुनरायाति प्रतिनिवृत्त्य। पुरुषः शतायुः। अस्यार्थः– तस्य जीवनप्रमाणं शतवर्षाणि। तत्रापि आबाल्य-कौमारं क्रीडादितत्परः समयस्य
मूल्यं न जानाति। यौवने गृहस्थजीवने अनुयोगाधीनता(उत्तरदायित्व)भारेण अवनतः सन्
नानाविधकार्येषु व्यापृतो भवति। वार्धके शक्तिहीनतायाः पीडितः सन् अशक्तः
कार्यधुर्यां असमर्थो भवति। एषस्तु जीवनगमनस्य क्रमस्य वस्तुस्थितिः।
तत्रापि यदि कोऽपि क्रियाशीली विद्या-कलादिषु ज्ञानवर्धनाय, शास्त्राध्ययनाय वा, प्रयतितुं मनः कृत्वा पुरो याति,
तदानीं तत्र बहुविधविघातकाः आपतेयुः येन कार्यस्य ज्ञानस्य वा
प्रवाहः स्थगितो विष्टम्भितो वा भवेत्। ये कार्यं विघ्नन्ति, तेषां प्रतिबन्धकानामपाकरणे निवर्तने वा यदि पुरुषः शक्तः, तर्हि पुनः तानभ्यधिगम्य अग्रे सरेत्। किन्तु यद्यशक्तः, तर्हि पुनः कार्यमवरुद्धं भवेत्। एवं स्थितिरस्ति बहुविधविघ्नानां
क्रमस्य।
अतः श्लोके एवमुच्यते समाधानम्–
अनेकशास्त्रं बहु
वेदितव्यमल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ॥
‘कालस्याल्पत्वात्, विघ्नानां बहुत्वाच्च कार्यमेव
त्यजाम’ इत्यर्थो नोच्यते अनया लोकोक्त्या। यावदावश्यकं,
यावता कार्येण प्रमुखं वस्तु सिद्ध्येत्, येन
विना कृतिर्न फलेत्, तावता तेन च व्यवहारं कल्पयित्वा
लक्ष्यं साधयेत्। अनावश्यकेषु वस्तुषु, विषयविस्तरेषु वा
कालयापनं न करणीयमित्यर्थः ॥
No comments:
Post a Comment