वाचा व्यक्तं यदुच्यते तदेव लोकोऽवगच्छति। लोके व्यवहारः वाचा एव प्रचलति। व्यक्ता वाक् परस्मै मनःस्थितं भावं
शब्दैः ज्ञापयति, लक्षितं कार्यं च सन्दर्भमाश्रित्य कारयति। एकमेव भावं
नानाविधशब्दैः ज्ञापितुं शक्नुवन्ति जनाः। कदाचित् हावभावैरपि, इङ्गितेनापि
अन्तरङ्गभावं ज्ञातुं शक्यते। कस्मिन् सन्दर्भे कीदृक्पुरुषः स्त्री वा कथं वदति,
सज्जनानां, शीलवतां, दुर्मनसां च वचःसु भेदो भवति। तं भेदं धीमान् सपदि गृह्णाति।
कदाचित् वैखर्या वाचापि हृदिस्थितां
भावनां स्पष्टं सम्यग्वक्तुं न पारयति पुरुषः, किं पुनः मौनेन ज्ञापयितुं पारयेत्? पण्डिताः भाषाज्ञानिनः, विवेकशीलाः सन्तः उक्तस्य
वाक्यस्य पुरतः, पश्चात्, अन्तश्च किमस्तीति पूर्वापरं च विज्ञाय प्रवर्तन्ते। पण्डितस्य
लोकज्ञानम्, अवधानं, परिशीलनाशक्तिश्च दृढाः राजन्ते। अतः
स्वबुद्ध्या, स्वोहया, स्वेङ्गितज्ञानेन, वक्तुः
आचरणं, मुखसंज्ञाभावादीन्
परिशील्य च पण्डितः वाचा व्यक्तं यन्नोक्तं तमप्यान्तरिकमाशयं लीलयाधिगच्छति। अतः
पण्डितसम्मुखं सावधानेन भवितव्यम्॥
No comments:
Post a Comment