Thursday 10 November 2016

संस्कृत-लोकोक्तिः-39 आयातः प्रवाहः केन वार्यते

        पञ्चभूतेषु अन्यतमं जलम्। निसर्गः कांचित् समतुल्यतामाधृत्य प्रचलति, स्वकार्यं निर्वर्तयति च। तत्र कदाचित् न्यूनाधिक्यत्वात् विषमतापि आपतेत्। प्रवाहो नाम नद्यादीनां जलस्य स्रवन्तिः। यदा वृष्ट्या जलप्रवाहो वर्धते, तदा तत्र वेगोऽपि वर्धते। वेगेन जलघर्षणेन च पाषाणा अपि पिष्यन्ते। पेषणेन मृदवो भवन्ति। निरन्तरजलस्रावेण सः जलमार्गः अपि पिष्यते। जलाधिक्येन यदा नदीजलं स्वमार्गं विसृज्य जनपदानि, ग्रामाणि, मानवावासानि च प्रविशति, तदानीं कोऽपि मानवमात्रः तन्निवारयितुं अशक्तो भवति।
            कदाचित् मानवजीवने विपत्तय अपि प्रवाह इव आपतन्ति। कापि अपगच्छति, अन्या आपतति। तासां प्रभावः न कोऽपि अपाकर्तुं पारयति। एवं स्थितौ पुरुषः स्वशक्तिमनुसृत्य कदाचित् तान् पारं गच्छति, कदाचित् तेषां वशीभूतो पिष्यते च। यदा आपदां निवारणे स अशक्तः तदानीम् एषा लोकोक्तिः प्रयुज्यते।

No comments:

Post a Comment