Thursday 10 November 2016

संस्कृत-लोकोक्तिः-35 उपोषितस्य व्याघ्रस्य पारणं पशुमारणम्

     उपोषणं नाम उपवासः । नाम, आदिनं विनान्नं विनान्यलौकिकदैनन्दिनकार्यादिकं, भगवति दृष्टिं निधाय स्थितिः। एवं कृत्वा सायंकाले पुनः पूजादिकपूर्वकं उपोषणं त्यक्त्वा अन्नं खादति कर्ता। तेन कर्ता पुण्यं, स्वास्थ्यं, मानसिकीं विश्रान्तिं च लभते।
          किन्तु व्याघ्रस्य उपवासः कथं भवति? सः वस्तुतः हिंसकमृगः। तस्य भोजनं मृगादिः। पशुहननमेव तस्य नित्यकृत्यम्। पशूनां वधमकृत्वा स न जीवितुं पारयति। एषः संसारनियमः। सृष्टौ व्याघ्रस्वभावः एवं निर्मितः। न कोऽपि तत् अन्यथाकर्तुं शक्नोति। अतः सः उपोषणमपि कृत्वा पशुवधं कंचित् कालं त्यजेन्नाम। तावत्कालं पुशुभिः सह शान्तिं कुर्यात्, तदन्ते तु पुनः पशून् मारयत्येव। बुभुक्षाधिक्येनाधिकान् पशून् मारयति।
            तथैव दुर्जनोऽपि। यदि सः कदाचित् भाग्यवशात् विशिष्टं सदाचारं जनेषु प्रदर्शयति, तर्हि तत्र ज्ञातव्यं, सः व्याघ्र इव उपोषणं करोति इति। केवलं अल्पसमयाय सः तस्य दौर्जन्यं त्यजतीव व्यवहरति। पुनः सः स्वस्य स्वभावं प्रदर्शयिष्यति, पूर्वस्थितेरप्यधिकं दुराचारं करिष्यतीति स्मर्तव्यम्। अयमेवात्र श्लोकार्थः--
दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् ।
उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥१४७॥ महासुभाषितसंग्रहः

No comments:

Post a Comment