Thursday 10 November 2016

संस्कृत-लोकोक्तिः-31 आपद्यपि सतीवृत्तं किं मुञ्चति कुलस्त्रियः



            कुलस्त्रियः नाम सद्गुणसम्पन्नाः, सत्कुले जाताः, गृहे स्थित्वा याः पतिसेवारताः, गृहकार्यक्षमाः भूत्वा स्वकुलस्य गौरवं रक्षन्ति ताः। सतीवृत्तं नाम साध्वीभावः, साध्वाचरणं च। ताः यः कुलधर्मः, कुलाचारः च, तमेवानुतिष्ठन्ति। भर्तारं अनुसरन्ति। अपत्यानि सावधानं पालयन्ति। गृहकार्याणि, गृहधुरां च निदुष्टं निर्वहन्ति। अनवद्यकर्माण्येव सेवन्ते।

            साधारणसन्दर्भेषु सर्वे जनाः निर्दुष्टमाचरितुं शक्नुवन्ति। विशेषपरिस्थितिषु निर्वाहः कठिनतरो भवति। तथा स्थिते का कथा आपदाम्? आपन्नस्थितिषु साध्वाचरणं तु कष्टतमं भवति। कुलस्त्रियस्तु आपद्यपि स्वस्य धर्मं न त्यजन्ति। स्ववृत्तौ न परिवृत्तिं कुर्वन्ति। ताः सर्वस्थितिषु सर्वकालेषु सतीवृत्तं न जहति। अस्याः लोकोक्तेः सम्पूर्णश्लोकः एवम् कथासरित्सागरे, ३.१४-

             “तत्र तस्थुर्निजान् भर्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः । 

            आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥

No comments:

Post a Comment