सर्वः स्वार्थं समीहते- इति लोके उच्यते।
अत्र ‘सर्वः’ नाम सामान्यजनः। सन्तस्तु न तथा। ते सामान्यैः भिन्नाः।
तेषां स्वभावः स्वार्थपूरितः न भवति। आदानं नाम स्वीकरणम्। विसर्गो नाम विमोचनम्। सज्जनाः
यत्किमपि स्वीकुर्वन्ति, तत् पुनः सर्वेभ्यः वितरन्ति। ते स्वार्थाय
किमपि न सङ्गृह्णन्ति। लुब्धाः इव सर्वं स्वस्य समीपे एव स्थापयित्वा तस्य रक्षणे निमग्नाः
न भवन्ति। अत्रोपमानं किम्? वारिमुचः।
वारि मुञ्चन्तीति वारिमुचः। नाम मेघाः।
वारिमुचः वारिणः मोचनात् पूर्वं वारि सञ्चिन्वन्ति। कुतः सञ्चयं कुर्वन्ति?
जलनिधेः, नदी-तडाग-कासारादिभ्यः। कुतः सञ्चिन्वन्ति?
पुनः सस्यवर्धनार्थं विविधेषु स्थानेषु पयसः मोचनाय एव। नदी सर्वत्र
न गच्छति। तस्याः मार्गः निश्चितः भवति। सा स्वमार्गात् अन्यत्र गन्तुं न प्रभवति।
समुद्रस्य तोयं तु क्षारं, पानाय अयोग्यं च वर्तते। अतः सूर्यातपकाले
मेघाः तेभ्यः जलं चूषयित्वा वृष्टिकाले, नाम वर्षर्तौ मोचयन्ति।
तथा सर्वं सञ्चिताः आपः दत्त्वा ततः निर्गच्छन्ति- पुनरन्यतः नीरं गृहीत्वा अन्यत्र
वर्षणाय।
स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणं।
आदानं हि विसर्गाय सतां वारिमुचामिव॥४.८६॥