Saturday 25 June 2016

संस्कृत-लोकोक्तिः-4 अतिपरिचयादवज्ञा

            वृद्धजनैः, ज्येष्ठैः, केनापि महापुरुषेण वा सह तत्सन्निधौ स्थित्वा ज्ञानप्राप्तिः भवति, सद्विषयावगाहनं च भवति। ज्ञानार्जनप्रक्रियायां गुरुजनानां प्रति आदरभावः अत्यावश्यकः। बोधकः कदाचित् पूर्वपरिचितः, कदाचिद् अपरिचितः वा भवेत्। क्रमेण तेन सह अध्ययनेन साकं परिचयो वर्धेत। यदा बोधकः परिचितः, तर्हि बोधनसमये स परिचयभावः विषयस्य सुलभावगमनाय, उदाहरणपूर्कपाठनाय चोपयुक्तः भवेत्।
            क्रमेण परस्परं परिचयवृद्धिः बोधयितॄन् विषयाद् अपवार्य अन्यत्र पातयति, येन अध्ययनं कुण्ठितं जायते। बहुत्र परिचयस्य वृद्ध्या पठितुः दृष्टिः महापुरुषस्य महत्तायाः अन्यत्र अपगच्छति, असन्दर्भचर्चाः च घटन्ते। सान्निध्येन दृष्ट्वा कांश्चन अप्रासङ्गिकविषयान् परिशील्य एषोऽपि मम इवैवइत्यादिविचाराः मनसि उत्पद्यन्ते, येन महत्त्वभावनायाः मनः अधः पतति। अध्ययनादिकेषु लाभः च न्यूनीभवति। अतः बोधकानां, गुरुजनानां, वृद्धानां च सामीप्यम् अत्यधिकं न वाञ्छितव्यम्। यावान् अवबोधविषयस्य सन्दर्भः तावान् परिचयः समीचीनः भवति। अवज्ञाजननेन सत्सम्बन्धः छिन्नो भवति। ततश्च अध्ययनबाधोऽपि सोढव्यः भवति। तस्माद्वरं यावतावज्ञा न भवेत्, तावद्दूरे स्थितिः॥

No comments:

Post a Comment