अश्मा
नाम पाषाणः, पर्वतः, शिला। अल्पः वा महान् वा पाषाणः सदा सुदृढो
दृश्यते। तस्य कोऽपि ह्रासः, परिमाणे
क्षतिः वा कदाचित् घटिष्यत इव न दृश्यते। अन्यवस्तूनि इव स जीर्णतां न प्राप्नोति इव
भाति। किन्तु सामान्यदृष्टेः अगोचरः सन्, कालः तमपि जीर्णीकरोति। महत्कालं पश्चात् तस्य पाषाणस्य परिमाणे ह्रासं पश्यामः।
तेनैव ज्ञायते, सर्वं वस्तु
नाशशीलं नश्वरमेव भवति भूमौ इति। अत्र अश्मनः अपचयः
वायुयोगमात्रेण क्रमेणैव भवति।
कदाचित्
प्रवाहे पतितः शिलाखण्डः जलेन प्रवहन् क्रमेण जीर्णः भवति। प्रवाहे तु भूम्या,
जलेन च तस्य निरन्तरघर्षणं भवति। तेन घर्षणेन पूर्वं यः कठोरः, असमः, तीक्ष्णकोणः
चाभवत्, सः अन्ततो गत्वा वृत्ताकारः, मृदुः, स्पर्शनयोग्यः च सम्पद्यते। सः
सुन्दरः बालक्रीडनायोपयुक्तश्च भवति। यदि कोऽपि स्वस्य शारीरशक्तेः, दृढतायाश्च
तुलनाम् अश्मना करोति, तर्हि
एषा लोकोक्तिः स्मर्तव्या॥
No comments:
Post a Comment