अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्।
इष्टार्थस्य च संसिद्धौ को विद्वान् यत्नमाचरेत्॥
अक्के, स्वकीये गृहकोणे
एव यदि मधु प्राप्यते, तर्हि कः दूरं पर्वतं प्रति गत्वा
तदर्थं यत्नं करोति? यदि किमपि अभिलषितं वस्तु समीपमेव
लभ्यते, तदा कोऽपि तत्प्राप्तुं दूरं न गच्छति। यत्किमपि
प्रयोजनं अल्पीयेन लाघवेन च प्रयत्नेन साध्यते, तर्हि तदर्थम् अयासप्रयासादिकं नावश्यकमिति अस्य आभाणकस्य
अभिप्रायः।
गृहे
स्थितस्य वस्तुनः मूल्यं न परिगण्यते। तत् प्रति अवज्ञाभावः तिष्ठति मनःसु। महत्प्रयत्नेन
प्राप्तस्य वस्तुनः एव महार्घत्वम् आरोप्यते। कदाचिद् गृहप्राङ्गणे स्थितः
वृक्षविशेषः ओषधिः स्यात्। किन्तु आपणं गत्वा, धनं दत्त्वा, क्रीणनेनैव
रोगनिवृत्तिः भवतीति जनाः विश्वसन्ति। ब्रह्मसाधनाय गुरुरावश्यक इति साधकः लोके
सर्वत्र भ्रमति। कदाचित् स गुरुः स्वजनकः एव भवेत्। लौकिकविद्यास्वपि स्वकीयगृहे
एव अग्रजः, अग्रजा वा साहाय्यकौ भवेताम्। तदापि बालकाय अध्यापकमानीय शुल्कं प्रदाय
विद्या दीयते। नैतद् युक्तम्॥
No comments:
Post a Comment