अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥मनुस्मृतिः, २.४
कामो नाम
इच्छा। किमपि वस्तु आवश्यकमिति, किमपि लक्ष्यं साधनीयमिति
पुरुषस्य मनसि जायमाना अभिलाषा कामः। स एव तद्वस्तुसाधनाय पुरुषं प्रवर्तयति। अकामः
पुरुषः कार्यलेशेऽपि न प्रवर्तते। सः किमपि कार्यं कर्तुं न पारयति। यत्किञ्चित्
कार्यं पुरुषः करोति, तत्सर्वं काममूलमेव जगति प्रचलति। अत्र
जन्तुर्नाम जीवः, प्राणी इत्यर्थः। यः किमपि प्रयतनम् अकुर्वन्
तिष्ठति, तस्य बुद्धिः जडा मन्दा च सम्पद्यते।
प्रवृत्तिमार्गे कार्यसाधनाय कामः आवश्यकः। निवृत्तिमार्गे कामः त्याज्यः।
प्रवृत्तिमार्गे पुरुषः कामयुक्तस्सन् कार्ये मग्नः भूत्वा
पुनः कार्यं तु साध्नोति, परं तु तत्फलेन बद्धो भवति। तस्य शुभाशुभफलेन स
अविमुक्तः न तिष्ठति। अतः विवेकशीलिनः कर्मण्येवाधिकारनियमं सुष्ठु जानन्ति।
कामपूर्वकं कर्म पुरुषं बध्नातीति ज्ञात्वा कर्मानुतिष्ठति बुद्धिमान्। लोके कामासक्तभावं
त्यक्त्वापि कार्यशीलः भवितुमर्हति। तस्य समस्तप्रयत्नेषु फलेच्छा विसृज्यते। अतः
तस्य इहमपि परमपि अविकुण्ठिते तिष्ठतः॥
No comments:
Post a Comment