Saturday 25 June 2016

संस्कृत-लोकोक्तिः-5 अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति

           बीजः भूमौ उप्यते वृक्षरूपधारणाय, धान्य-फल-पुष्पादीनां प्रदानाय च। यदि तस्य वर्धनं समीचीनतया करणीयं, तर्हि तत् सुक्षेत्रे एव उप्यतु। क्षेत्रेऽपि तस्य बीजस्य वर्धनाय शक्तिः वर्तताम्। यदि अक्षेत्रे, नाम, क्षेत्रभिन्ने अथवा कुक्षेत्रे बीजं उत्सृज्यते, तर्हि बीजस्य उत्पत्तिशक्तिः नश्येत, तेन तत् कदापि वृक्षः न सम्पद्येत। 
          तथैव सुविचाराः सद्वाक्यानि च यदि दुष्टस्थलेषु, मूर्खजनानां पुरतश्च उच्यन्ते, तर्हि सुविचाराः सद्वाक्यानि च विनश्यन्ति। यदि सत्कार्याय प्रयतनानि असत्सु स्थलेषु क्रियन्ते, तर्हि सत्कार्याणि विनश्यन्ति। 
          सम्पूर्णः श्लोकः अत्र वर्तते-
                        अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति |
                        अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् (मनुस्मृतिः)
            यदि बीजे उत्पत्तिशक्तिर्नास्ति तर्हि सुक्षेत्रे अपि न फलति। सुक्षेत्रे सुबीजमेव उत्पद्यते। तथैव सुविचाराः साधुस्थलेषु, सद्वाक्यानि सज्जनसमीपं च वक्तव्यानि

संस्कृत-लोकोक्तिः-4 अतिपरिचयादवज्ञा

            वृद्धजनैः, ज्येष्ठैः, केनापि महापुरुषेण वा सह तत्सन्निधौ स्थित्वा ज्ञानप्राप्तिः भवति, सद्विषयावगाहनं च भवति। ज्ञानार्जनप्रक्रियायां गुरुजनानां प्रति आदरभावः अत्यावश्यकः। बोधकः कदाचित् पूर्वपरिचितः, कदाचिद् अपरिचितः वा भवेत्। क्रमेण तेन सह अध्ययनेन साकं परिचयो वर्धेत। यदा बोधकः परिचितः, तर्हि बोधनसमये स परिचयभावः विषयस्य सुलभावगमनाय, उदाहरणपूर्कपाठनाय चोपयुक्तः भवेत्।
            क्रमेण परस्परं परिचयवृद्धिः बोधयितॄन् विषयाद् अपवार्य अन्यत्र पातयति, येन अध्ययनं कुण्ठितं जायते। बहुत्र परिचयस्य वृद्ध्या पठितुः दृष्टिः महापुरुषस्य महत्तायाः अन्यत्र अपगच्छति, असन्दर्भचर्चाः च घटन्ते। सान्निध्येन दृष्ट्वा कांश्चन अप्रासङ्गिकविषयान् परिशील्य एषोऽपि मम इवैवइत्यादिविचाराः मनसि उत्पद्यन्ते, येन महत्त्वभावनायाः मनः अधः पतति। अध्ययनादिकेषु लाभः च न्यूनीभवति। अतः बोधकानां, गुरुजनानां, वृद्धानां च सामीप्यम् अत्यधिकं न वाञ्छितव्यम्। यावान् अवबोधविषयस्य सन्दर्भः तावान् परिचयः समीचीनः भवति। अवज्ञाजननेन सत्सम्बन्धः छिन्नो भवति। ततश्च अध्ययनबाधोऽपि सोढव्यः भवति। तस्माद्वरं यावतावज्ञा न भवेत्, तावद्दूरे स्थितिः॥

संस्कृत-लोकोक्तिः-3 अन्ततोऽश्मापि जीर्यते

            अश्मा नाम पाषाणः, पर्वतः, शिला। अल्पः वा महान् वा पाषाणः सदा सुदृढो दृश्यते। तस्य कोऽपि ह्रासः, परिमाणे क्षतिः वा कदाचित् घटिष्यतदृश्यते। अन्यवस्तूनि इव स जीर्णतां न प्राप्नोति इव भाति। किन्तु सामान्यदृष्टेः अगोचरः सन्, कालः तमपि जीर्णीकरोति। महत्कालं पश्चात् तस्य पाषाणस्य परिमाणे ह्रासं पश्यामः। तेनैव ज्ञायते, सर्वं वस्तु नाशशीलं नश्वरमेव भवति भूमौ इति। अत्र अश्मनः अपचयः वायुयोगमात्रेण क्रमेणैव भवति।
            कदाचित् प्रवाहे पतितः शिलाखण्डः जलेन प्रवहन् क्रमेण जीर्णः भवति। प्रवाहे तु भूम्या, जलेन च तस्य निरन्तरघर्षणं भवति। तेन घर्षणेन पूर्वं यः कठोरः, असमः, तीक्ष्णकोणः चाभवत्, सः अन्ततो गत्वा वृत्ताकारः, मृदुः, स्पर्शनयोग्यः च सम्पद्यते। सः सुन्दरः बालक्रीडनायोपयुक्तश्च भवति। यदि कोपि स्वस्य शारीरशक्तेः, दृढतायाश्च तुलनाम् अश्मना करोति, तर्हि एषा लोकोक्तिः स्मर्तव्या