Thursday, 10 November 2016

संस्कृत-लोकोक्तिः-37 कवयः किं न पश्यन्ति


            कवयः क्रान्तदर्शिनः। कव स्तुतौ वर्णने च। यः स्तौति, वर्णयति सः कविः। कविः सामान्यजनैः दृश्यमानाः एव वृत्तीः पश्यति। किन्तु तस्य दृष्टिः भिन्ना भवति। जीवने घटितेषु घटनेषु यद्यद् हृदयस्पर्शितं, सः तस्मै प्रतिस्पन्दते। तदक्षिपुरतः यद्यद् आकलयति तत्तत् सः स्वकल्पनया चित्रित्वा विलोकते। तस्य मनसः भिन्नशक्तित्वात् सर्वं स्थावरजङ्गमं वस्तुजगत् तस्य भावनानां वर्णचित्रमिव भवति।
            न केवलं तत्, कविः घटितेन अघटितं, व्यक्तेन अव्यक्तं, उक्तेन अनुक्तं च ज्ञातुं पारयति। सः हृदयान्तर्वर्तिनः मनोधर्मान्, चेतोविकारान् वा अनायासेन स्वयमेव अनुभवन्निव अवगच्छति। सः बालानां, वृद्धानां, स्त्रीणां, पुरुषाणां, ग्राम्यानां नागरिकाणां च, न केवलं मानवानां अपितु पशूनामपि, किं चेतनानां, अचेतनानामपि चित्तान्तःस्पन्दानां ज्ञाता भवति। तस्य स्वनिगूढहृहयमर्माणां संज्ञानमेव तम् अन्येषामपि अन्तर्वेगान् अधिगन्तुं समर्थं करोति। अत एवोच्यते- ‘यत्र न गच्छति रविः, तत्र गच्छति कविः’ इति। कवयः सर्वं यद्वाञ्छितं तद्द्रुष्टुं क्षमाः।

संस्कृत-लोकोक्तिः-36 किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्



            यत्र जीवः जन्म लभते, स वंशः एव कुलं नाम। मानवस्य गुणानां, लक्षणानां, चिन्तनस्य, स्वभावस्य च निर्मितौ अत्यधिकः प्रभावः कुलस्य भवति। तत्र मातापितृभ्यां, पितामहादिभ्यः, वंशवृद्धैश्च पालनपोषणेन सह मानवः, सच्छीलतां, संस्कारान् च शिक्षते। तत्प्राप्त्या मानवः कुलीन इति लोके विश्रुतिं भजते। कुललक्षणमेवमुक्तं शास्त्रज्ञैः-
                        आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् ।
                        निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम् ॥
            कुलीनतामाश्रित्यापि नरः कदाचित् दर्पं प्राप्नुयात्। जन्मजातस्य वंशस्य समुन्नतत्वेऽपि बहुधा नीचताम् अधमतां वा जनेषु पश्यामः। सत्कुले जातोऽपि सन् कश्चित् दुष्टः, परकण्टकश्च भवेत्। तथा सति तादृशोऽपि यदि कुलस्य नामोक्त्वा स्वस्य महत्तां उद्घुष्य गौरवादिकावाप्तये प्रयतते, तर्हि तन्न साधु। कुलमुन्नतं भवेन्नाम, परं तत्र स्वशीलस्यैवाधिक्येन महत्ता गण्यते लोकैः। अत एवोच्यते-
            किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्।
            भवन्ति नितरां स्फीताः सुक्षेत्रे कण्टकद्रुमाः॥ -मृच्छकटिकम्- ९.७

संस्कृत-लोकोक्तिः-35 उपोषितस्य व्याघ्रस्य पारणं पशुमारणम्

     उपोषणं नाम उपवासः । नाम, आदिनं विनान्नं विनान्यलौकिकदैनन्दिनकार्यादिकं, भगवति दृष्टिं निधाय स्थितिः। एवं कृत्वा सायंकाले पुनः पूजादिकपूर्वकं उपोषणं त्यक्त्वा अन्नं खादति कर्ता। तेन कर्ता पुण्यं, स्वास्थ्यं, मानसिकीं विश्रान्तिं च लभते।
          किन्तु व्याघ्रस्य उपवासः कथं भवति? सः वस्तुतः हिंसकमृगः। तस्य भोजनं मृगादिः। पशुहननमेव तस्य नित्यकृत्यम्। पशूनां वधमकृत्वा स न जीवितुं पारयति। एषः संसारनियमः। सृष्टौ व्याघ्रस्वभावः एवं निर्मितः। न कोऽपि तत् अन्यथाकर्तुं शक्नोति। अतः सः उपोषणमपि कृत्वा पशुवधं कंचित् कालं त्यजेन्नाम। तावत्कालं पुशुभिः सह शान्तिं कुर्यात्, तदन्ते तु पुनः पशून् मारयत्येव। बुभुक्षाधिक्येनाधिकान् पशून् मारयति।
            तथैव दुर्जनोऽपि। यदि सः कदाचित् भाग्यवशात् विशिष्टं सदाचारं जनेषु प्रदर्शयति, तर्हि तत्र ज्ञातव्यं, सः व्याघ्र इव उपोषणं करोति इति। केवलं अल्पसमयाय सः तस्य दौर्जन्यं त्यजतीव व्यवहरति। पुनः सः स्वस्य स्वभावं प्रदर्शयिष्यति, पूर्वस्थितेरप्यधिकं दुराचारं करिष्यतीति स्मर्तव्यम्। अयमेवात्र श्लोकार्थः--
दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् ।
उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥१४७॥ महासुभाषितसंग्रहः

संस्कृत-लोकोक्तिः-34 एका क्रिया द्व्यर्थकरी बभूव


           लघुप्रयत्नेन अनल्पं साधयितुमिच्छति मानवः। नैषा सिसात्सा अस्य दोषः। स्वभावेन तस्य बुद्धिरेतादृशी सृष्टा। यत्किमपि कर्म क्रियमाणस्सः अनेन महान् लाभो मम भवत्विति आशास्ति। सा लाभेच्छा समस्तमानवेप्सितार्थेषु वर्तेत। व्रतनियमादिना पुण्यार्जनं, तपसाद्याचरणेन देवतानुग्रहसाधनं, वाणिज्यव्यापारादिना धनप्राप्तिः, सेवादिनिर्वहणेन यशसादिलाभः- इत्यादिरूपा नानाविधा सा इच्छा भवितुमर्हति। सूत्रं तु तत्र एकमेव- अल्पात्यल्पया शक्त्यादानेन अधिकाधिकं फलावाप्तिः। अल्पप्रयत्ने अधिकलाभः इति। अथवा प्रयत्नेनैकेन फलद्वयप्राप्तिः।
       न केवलं लोकेऽस्मिन् आधुनिके काले, अपि त्वेषा प्राचीनानामप्यासीत्। अत्र कार्यैक्ये फलद्वयस्योदाहरणमेवम्। पितृदेवेभ्यो अर्घ्यप्रदानं नित्यनियुक्तं कर्म भवति। कश्चन बटुः प्रतिदिनं जलं नीत्वा समन्त्रकम् अर्घ्यं ददन् आम्रवृक्षेषु तत् क्षिपति। अनेन जलैः प्रतिदिनं वृक्षाः सिञ्चिताः वर्धन्ते, पितॄणामप्याशीः तेनावाप्यते। अत्र सान्तः श्लोकोऽयम्–
एको वटुर्दर्भकुशाग्रपाणिर्वने वनैः सिञ्चति बालचूतान् ।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥

संस्कृत-लोकोक्तिः-33 आज्ञा गुरूणामविचारणीया

            यः चित्ते स्थितमज्ञानान्धकारमपनयति, ज्ञानप्रकाशं प्रति मनः नयति, सः गुरुः। गुरुमहिमा भारतीयधर्मग्रन्थेषु नैकेषु प्रसङ्गेषु असकृदुक्तः। शिष्यः आत्मन अनुरूपं गुरुमुपगम्य तस्य पुरतः शिरः नत्वा विद्याबोधनाय अनुरुन्धे। गुरुः तदङ्गीकृत्य तं स्वस्य निकटे प्रतिष्ठाप्य यावच्छक्ति ज्ञानं प्रददाति।
            गुरुः शिष्यस्य प्रगतिं कामयन् तस्मै कार्यनिर्देशनं करोति। तत् सर्वं शिष्यस्य हिताय भवति। किन्तु शिष्याय कदाचित् तन्न रोचेत। शिष्यबुद्धेः अल्पत्वात् तस्य निर्देशनस्य आन्तरङ्गिकः भावः तेन न ज्ञायेत। क्लिष्टकरं, शरीरपीडाजनकं वा कर्म तं शिष्यं तस्मिन् कार्ये अप्रवृत्तये प्रेरयेत्। तावन्मात्रेण शिष्यः ‘गुरुः मां वृथा एवमाचरितुं चोदयति। एतन्मम इष्टाय न। इति विचिन्त्य तस्मात् कर्मणः निर्वर्तेत। तदा न करणीयमिति, तां सदा अविचार्य एव पालनीयमिति अस्याः लोकोक्तेरुद्देश्यः। गच्छता कालेन शिष्यः गुरोः अनुग्रहेण आत्मविकासं सम्प्राप्य गुरोः अन्तरङ्गं ज्ञात्वा सर्वं स्वहितानुगुणमेवासीदिति अवगच्छति।
            यदि कदाचित् कश्चन दुष्टः गुरुः अधार्मिकं किञ्चित् कर्म यदि आज्ञापयति, तर्हि तन्न कदापि करणीयं शिष्येन। तत्र इयं शास्त्राज्ञा लङ्घनीया एव।

संस्कृत-लोकोक्तिः-32 किं मिष्टमन्नं खरसूकराणाम्



            मिष्टान्नं नाम मधुरपदार्थः। मधुरपदार्थो मानवेभ्यः रुचिकरं भवति। मनुष्याः पर्वदिनेषु विशेषं मधुरान्नं पक्त्वा खादन्ति। जिह्वायाः सम्पर्के जाते माधुर्यम् आनन्दं जनयति। अन्ये पशवस्तु केवलं उदरपोषणार्थं खादन्ति। तेभ्यः यत्किमपि दीयते क्षुन्निवारणार्थमेव खादन्ति। स्वादुपदार्थस्य आस्वादनं केवलं मानवः कर्तुं शक्नोति।

        इदमेवोदाहरणं मानवस्य विषये रसपूरितवाक्यानां, पद्य-गीत-संगीतादीनां चानास्वादकेभ्यः कथ्यते। यः बधिरः सः शङ्खनादं न श्रोतुं शक्नोति। भगवत्कथाः भक्तिप्रसङ्गान् च भक्तिहीनः नरः नास्वादयितुं पारयति। मूर्खः हितवाक्यानि न शृणोति। तद्विधानां पुरतः तत्तद्विषयानां प्रस्तावः पशून् मिष्टान्नं खादयित्वा स्वादस्य प्रशंसार्थं प्रतीक्षेव भवति॥


संस्कृत-लोकोक्तिः-31 आपद्यपि सतीवृत्तं किं मुञ्चति कुलस्त्रियः



            कुलस्त्रियः नाम सद्गुणसम्पन्नाः, सत्कुले जाताः, गृहे स्थित्वा याः पतिसेवारताः, गृहकार्यक्षमाः भूत्वा स्वकुलस्य गौरवं रक्षन्ति ताः। सतीवृत्तं नाम साध्वीभावः, साध्वाचरणं च। ताः यः कुलधर्मः, कुलाचारः च, तमेवानुतिष्ठन्ति। भर्तारं अनुसरन्ति। अपत्यानि सावधानं पालयन्ति। गृहकार्याणि, गृहधुरां च निदुष्टं निर्वहन्ति। अनवद्यकर्माण्येव सेवन्ते।

            साधारणसन्दर्भेषु सर्वे जनाः निर्दुष्टमाचरितुं शक्नुवन्ति। विशेषपरिस्थितिषु निर्वाहः कठिनतरो भवति। तथा स्थिते का कथा आपदाम्? आपन्नस्थितिषु साध्वाचरणं तु कष्टतमं भवति। कुलस्त्रियस्तु आपद्यपि स्वस्य धर्मं न त्यजन्ति। स्ववृत्तौ न परिवृत्तिं कुर्वन्ति। ताः सर्वस्थितिषु सर्वकालेषु सतीवृत्तं न जहति। अस्याः लोकोक्तेः सम्पूर्णश्लोकः एवम् कथासरित्सागरे, ३.१४-

             “तत्र तस्थुर्निजान् भर्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः । 

            आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥