Showing posts with label subhashita. Show all posts
Showing posts with label subhashita. Show all posts

Thursday, 10 November 2016

संस्कृतलोकोक्तिः-44 आदानं हि विसर्गाय सतां वारिमुचामिव।


         सर्वः स्वार्थं समीहते- इति लोके उच्यते। अत्र सर्वः’ नाम सामान्यजनः। सन्तस्तु न तथा। ते सामान्यैः भिन्नाः। तेषां स्वभावः स्वार्थपूरितः न भवति। आदानं नाम स्वीकरणम्। विसर्गो नाम विमोचनम्। सज्जनाः यत्किमपि स्वीकुर्वन्ति, तत् पुनः सर्वेभ्यः वितरन्ति। ते स्वार्थाय किमपि न सङ्गृह्णन्ति। लुब्धाः इव सर्वं स्वस्य समीपे एव स्थापयित्वा तस्य रक्षणे निमग्नाः न भवन्ति। अत्रोपमानं किम्? वारिमुचः।
            वारि मुञ्चन्तीति वारिमुचः। नाम मेघाः। वारिमुचः वारिणः मोचनात् पूर्वं वारि सञ्चिन्वन्ति। कुतः सञ्चयं कुर्वन्ति? जलनिधेः, नदी-तडाग-कासारादिभ्यः। कुतः सञ्चिन्वन्ति? पुनः सस्यवर्धनार्थं विविधेषु स्थानेषु पयसः मोचनाय एव। नदी सर्वत्र न गच्छति। तस्याः मार्गः निश्चितः भवति। सा स्वमार्गात् अन्यत्र गन्तुं न प्रभवति। समुद्रस्य तोयं तु क्षारं, पानाय अयोग्यं च वर्तते। अतः सूर्यातपकाले मेघाः तेभ्यः जलं चूषयित्वा वृष्टिकाले, नाम वर्षर्तौ मोचयन्ति। तथा सर्वं सञ्चिताः आपः दत्त्वा ततः निर्गच्छन्ति- पुनरन्यतः नीरं गृहीत्वा अन्यत्र वर्षणाय।
इदं श्लोकपादं रघुवंशे वर्तते-
स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणं।
आदानं हि विसर्गाय सतां वारिमुचामिव॥४.८६॥

संस्कृत-लोकोक्तिः-43 अधिकस्याधिकं फलम्

           यद्यावत् क्रियते तस्य तावत् फलम्। अधिकं कुर्मः अधिकं प्राप्नुमः। ध्येयमार्गे प्रयत्नाधिक्येन लक्ष्यं, कार्ये श्रमाधिक्येन धनं, अध्ययनाधिक्येन विद्यां कलां च नरः अधिगच्छति। बाल्ये यः अधिकम् उद्यमशीली, सः प्रौढो भूत्वा स्वस्य कार्यक्षेत्रे कुशलः, दक्षश्च भूत्वा लोके धन-कीर्ति-वस्तु-सुखार्जनमार्गान् च निःसन्देहं सुसरलं प्राप्नोति।
            परं तु अति सर्वत्र वर्जयेदिति कुत्रचिदुच्यते। अधिकं क्रियते चेदधिकं फलमिति अन्यत्र। तर्हि कथमत्र परिहारः? अति-अधिकयोः अन्तरमस्ति। अति नाम सीम्नः पारं गत्वा, शक्तिमतिक्रम्य, प्रकृतेः (निसर्गस्य) नियमभङ्गं कृत्वा चाचरणम्। अधिकं नाम यावच्छक्ति यत्क्रियते ततोऽधिकं, ततः किञ्चित् क्रमशः अग्रे गत्वा, विस्तरणमात्रं, येन मर्यादाविच्छेदो न भवति।
            कदाचित् उच्यते, भक्ति-अध्ययन-ध्यान-तपः-पूजादिषु यदि कोऽपि साधकः अधिकं प्रवर्तेत, तर्हि अति मास्तु इति। किन्तु तत्र साधकस्य शक्तिः, निवारकस्य शक्तिश्च भिद्येते। प्रायस्तत्र साधकः केवलं अधिकं करोति, ‘अति न भवेत्- इति निवारकः जानातु। 

संस्कृत-लोकोक्तिः-42 अनतिक्रमणीया हि नियतिः


            नियतिर्नाम नियम्यते आत्मा अनयेति, भाग्यं, दैवं वा - यस्मिन् नरस्य अधिकारो नास्ति, यत्र पुरुषस्य स्वेच्छा न प्रवर्तते, तादृशः पूर्वनिर्दिष्टः कश्चित् नियमः यमनुसृत्य लोके मनुष्यजीवने कार्याणि सञ्चलन्ति। तेन प्राणिनः कदाचित् सुखं कदाचिच्च दुःखमनुभवन्ति। सर्वे प्रायः एवं वदन्ति- पुरुषस्य भाग्यं देवोऽपि न जानाति इति। केचित्तु भाग्यं नाम किमपि नास्ति, कदाचित् अकर्मण्यत्वं गोपयितुं इत्थमुच्यते इति वदन्ति।
            “मनुष्यः स्वयमेव भाग्यनिर्माता इति विवेकानन्दः कथयति। यन्मनुष्यः पूर्वस्मिन् काले आचरति, तस्यैव फलं भाग्यरूपेण परिणमते इति। तेन पूर्वजन्मनि आचरितं कर्मसञ्चयं यद्भवति, तस्य फलमिदानीं सुखदुःखरूपेणानुभूयते पुरुषेण। अस्यार्थः- यदिदानीमाचरामः, तस्य फलं अग्रे भविष्यतीति यावत्। अद्याचरितं कर्म परे भाग्यं भविष्यति। यत्पूर्वमाचरितं तन्निष्कर्तुं कोऽपि न प्रभवति इति मात्रमस्याः लोकोक्तेरर्थः।

संस्कृत-लोकोक्तिः-41 उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः


      लोके बहुविधानि कार्याणि भवन्ति। कानिचन क्लिष्टानि, कानिचिच्चाक्लिष्टानि । सुलभकार्याणां साधने न कोऽपि उपतापः। किन्तु क्लेशसंयुक्तकार्याणां संसिद्धिमार्गे विघ्नाः आपतन्ति। तादृशे स्थितौ विघ्नहरणप्रयतनविधानं दृष्ट्वा कः समर्थः, कश्च नेति लोको पश्यति। केचन सदा बाहुबलमेव संकटान् हरतीति विश्वसन्ति। किन्तु न सः सार्वकालिकमार्गः। कदाचित् वचनमात्रलाघवेन कार्यं सफलं भवेत्।
            उपायो नाम किमपि कार्यं साद्धुं सरलः मार्गः। शत्रूणामाक्रमणाय चतुर्विधोपायाः साम-दान-भेद-दण्डाः उक्ताः। कार्यसाधकाः विविधोपायवन्तः। ते साधनीयकार्यं विविधैः कोणैः परिशीलयन्ति। तस्य स्थितिं गतिं च परिगणय्य, सम्यगवगाह्य, पूर्वानुभवेनार्जितं परिज्ञानं सम्प्रयुज्य विघ्नानि अतिक्रम्य अग्रे सरन्ति। एतदेव अस्यां लोकोक्त्यां तात्पर्यम्। (पञ्चतन्त्रस्थमिदं वाक्यम्)। 

संस्कृत-लोकोक्तिः-40 अशक्तोऽहं गृहारम्भे शक्तोऽहं गृहभञ्जने




            नूतनतया यत्किममपि कार्यं कर्तुं बुद्धिः, कार्यकौशल्यं, समाहितत्वं, सहनं, परसहिष्णुता, कालः चापेक्ष्यन्ते। तत्र पुरुषेण धैर्येण, शक्तियुक्तेन च भवितव्यम्। यः कमपि क्लेशं, व्ययप्रयासान् च सोढ्वा निर्माति स एव तत्र कष्टं जानाति। यन्निर्मितमस्ति तस्य विनाशाय नाधिकः काल अपेक्ष्यते।

            गृहारम्भो नाम गृहस्य निर्माणकार्यम्। गृहभञ्जनं नाम निर्मितस्य गृहस्य विच्छेदः। गृहनिर्माणं धनव्ययोपेतं, अत्यन्तं क्लेशसंयुक्तं च वर्तते। भञ्जनाय तु तत्र निर्माणापेक्षया स्वल्पिष्ठः कालोऽपेक्ष्यते।

            आधुनिककाले अस्याः लोकोक्तेः उदाहरणं- यः सद्राजकीयनेता सहृदयतया प्रजासेवां करोति, विपक्षीयाः तस्य अकारणं, दुष्टेन व्याजेन, सर्वदा दूषणं तिरस्कारं च कुर्वन्ति। तस्य कार्याणि, प्रणालिकांश्च भग्नं कुर्वन्ति। यत्र दुष्टाः किमपि कार्यमकृत्वा, अन्येषां निर्मातॄणां निष्कारणं विघ्नानि उत्पादयन्ति, तत्रेयं लोकोक्तिः प्रयुज्यते।

संस्कृत-लोकोक्तिः-39 आयातः प्रवाहः केन वार्यते

        पञ्चभूतेषु अन्यतमं जलम्। निसर्गः कांचित् समतुल्यतामाधृत्य प्रचलति, स्वकार्यं निर्वर्तयति च। तत्र कदाचित् न्यूनाधिक्यत्वात् विषमतापि आपतेत्। प्रवाहो नाम नद्यादीनां जलस्य स्रवन्तिः। यदा वृष्ट्या जलप्रवाहो वर्धते, तदा तत्र वेगोऽपि वर्धते। वेगेन जलघर्षणेन च पाषाणा अपि पिष्यन्ते। पेषणेन मृदवो भवन्ति। निरन्तरजलस्रावेण सः जलमार्गः अपि पिष्यते। जलाधिक्येन यदा नदीजलं स्वमार्गं विसृज्य जनपदानि, ग्रामाणि, मानवावासानि च प्रविशति, तदानीं कोऽपि मानवमात्रः तन्निवारयितुं अशक्तो भवति।
            कदाचित् मानवजीवने विपत्तय अपि प्रवाह इव आपतन्ति। कापि अपगच्छति, अन्या आपतति। तासां प्रभावः न कोऽपि अपाकर्तुं पारयति। एवं स्थितौ पुरुषः स्वशक्तिमनुसृत्य कदाचित् तान् पारं गच्छति, कदाचित् तेषां वशीभूतो पिष्यते च। यदा आपदां निवारणे स अशक्तः तदानीम् एषा लोकोक्तिः प्रयुज्यते।

संस्कृत-लोकोक्तिः-38 उपवासाद्वरं भिक्षा



            उपवासो नाम उपोषणम्। अहोरात्रभोजनाभावः। एषः व्रतरूपेण, स्वस्थतासाधनाय, भक्तिवृद्धये, चित्तशुद्धये, पापनिवारणाय वा क्रियते। भोजनालाभे धनहीनैः तदर्जनाशक्तैश्च क्रियते। भोजनेन विना जीवाः क्षणकालमपि यापयितुं, कार्याणि कर्तुं वा अशक्ताः। अन्नाभावेन शरीरं मनश्च अत्यन्तं परिदेवयतः। पदद्वयं वा चलितुं, वक्तुं वा नरः अशक्तो भवति। इन्द्रियाणि शुष्यन्ति। गात्राणि सीदन्ति।

            भिक्षा नाम याचनम्। वस्तुनः, अन्नस्य, धनस्य वा अभावे अन्येषां तद्वस्तुधारिणां पुरतः हस्तौ प्रसार्य, ‘इदं मह्यं देहीति प्रार्थनम्। एवं अभ्यर्थ्य, बहुधा अहं क्षुत्पीडितः। कृपया मह्यं भोजनं ददातु इत्यादिभिः दीनवचनैः जनान् सकरुणं प्रष्टव्यमापतति। यः याचितः स ददातु न वा, एवं याचनेन याचकस्य मनः दुःखितो भवति। एवं याचित्वापि यदा याचितं न लभ्यते, तदानीम् आत्मा नितरां खिद्यते। 

            एवं रूपेण उपवासश्च, भिक्षा च द्वावपि अत्र क्लेशकरौ। किन्तु द्वयोः आपतितयोः भिक्षा एव तत्र वरमिति सूक्तिः। याचनेनार्जितं वा अन्नं बुभुक्षां निवारयति। शरीरं पोषयति। जीविनं रक्षति। येन केनापि (अधर्मभिन्न-)मार्गेण काले लब्धमन्नं प्राणान् धारयति।

संस्कृत-लोकोक्तिः-37 कवयः किं न पश्यन्ति


            कवयः क्रान्तदर्शिनः। कव स्तुतौ वर्णने च। यः स्तौति, वर्णयति सः कविः। कविः सामान्यजनैः दृश्यमानाः एव वृत्तीः पश्यति। किन्तु तस्य दृष्टिः भिन्ना भवति। जीवने घटितेषु घटनेषु यद्यद् हृदयस्पर्शितं, सः तस्मै प्रतिस्पन्दते। तदक्षिपुरतः यद्यद् आकलयति तत्तत् सः स्वकल्पनया चित्रित्वा विलोकते। तस्य मनसः भिन्नशक्तित्वात् सर्वं स्थावरजङ्गमं वस्तुजगत् तस्य भावनानां वर्णचित्रमिव भवति।
            न केवलं तत्, कविः घटितेन अघटितं, व्यक्तेन अव्यक्तं, उक्तेन अनुक्तं च ज्ञातुं पारयति। सः हृदयान्तर्वर्तिनः मनोधर्मान्, चेतोविकारान् वा अनायासेन स्वयमेव अनुभवन्निव अवगच्छति। सः बालानां, वृद्धानां, स्त्रीणां, पुरुषाणां, ग्राम्यानां नागरिकाणां च, न केवलं मानवानां अपितु पशूनामपि, किं चेतनानां, अचेतनानामपि चित्तान्तःस्पन्दानां ज्ञाता भवति। तस्य स्वनिगूढहृहयमर्माणां संज्ञानमेव तम् अन्येषामपि अन्तर्वेगान् अधिगन्तुं समर्थं करोति। अत एवोच्यते- यत्र न गच्छति रविः, तत्र गच्छति कविः इति। कवयः सर्वं यद्वाञ्छितं तद्द्रुष्टुं क्षमाः।

संस्कृत-लोकोक्तिः-35 उपोषितस्य व्याघ्रस्य पारणं पशुमारणम्

     उपोषणं नाम उपवासः । नाम, आदिनं विनान्नं विनान्यलौकिकदैनन्दिनकार्यादिकं, भगवति दृष्टिं निधाय स्थितिः। एवं कृत्वा सायंकाले पुनः पूजादिकपूर्वकं उपोषणं त्यक्त्वा अन्नं खादति कर्ता। तेन कर्ता पुण्यं, स्वास्थ्यं, मानसिकीं विश्रान्तिं च लभते।
          किन्तु व्याघ्रस्य उपवासः कथं भवति? सः वस्तुतः हिंसकमृगः। तस्य भोजनं मृगादिः। पशुहननमेव तस्य नित्यकृत्यम्। पशूनां वधमकृत्वा स न जीवितुं पारयति। एषः संसारनियमः। सृष्टौ व्याघ्रस्वभावः एवं निर्मितः। न कोऽपि तत् अन्यथाकर्तुं शक्नोति। अतः सः उपोषणमपि कृत्वा पशुवधं कंचित् कालं त्यजेन्नाम। तावत्कालं पुशुभिः सह शान्तिं कुर्यात्, तदन्ते तु पुनः पशून् मारयत्येव। बुभुक्षाधिक्येनाधिकान् पशून् मारयति।
            तथैव दुर्जनोऽपि। यदि सः कदाचित् भाग्यवशात् विशिष्टं सदाचारं जनेषु प्रदर्शयति, तर्हि तत्र ज्ञातव्यं, सः व्याघ्र इव उपोषणं करोति इति। केवलं अल्पसमयाय सः तस्य दौर्जन्यं त्यजतीव व्यवहरति। पुनः सः स्वस्य स्वभावं प्रदर्शयिष्यति, पूर्वस्थितेरप्यधिकं दुराचारं करिष्यतीति स्मर्तव्यम्। अयमेवात्र श्लोकार्थः--
दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् ।
उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥१४७॥ महासुभाषितसंग्रहः

संस्कृत-लोकोक्तिः-34 एका क्रिया द्व्यर्थकरी बभूव


           लघुप्रयत्नेन अनल्पं साधयितुमिच्छति मानवः। नैषा सिसात्सा अस्य दोषः। स्वभावेन तस्य बुद्धिरेतादृशी सृष्टा। यत्किमपि कर्म क्रियमाणस्सः अनेन महान् लाभो मम भवत्विति आशास्ति। सा लाभेच्छा समस्तमानवेप्सितार्थेषु वर्तेत। व्रतनियमादिना पुण्यार्जनं, तपसाद्याचरणेन देवतानुग्रहसाधनं, वाणिज्यव्यापारादिना धनप्राप्तिः, सेवादिनिर्वहणेन यशसादिलाभः- इत्यादिरूपा नानाविधा सा इच्छा भवितुमर्हति। सूत्रं तु तत्र एकमेव- अल्पात्यल्पया शक्त्यादानेन अधिकाधिकं फलावाप्तिः। अल्पप्रयत्ने अधिकलाभः इति। अथवा प्रयत्नेनैकेन फलद्वयप्राप्तिः।
       न केवलं लोकेऽस्मिन् आधुनिके काले, अपि त्वेषा प्राचीनानामप्यासीत्। अत्र कार्यैक्ये फलद्वयस्योदाहरणमेवम्। पितृदेवेभ्यो अर्घ्यप्रदानं नित्यनियुक्तं कर्म भवति। कश्चन बटुः प्रतिदिनं जलं नीत्वा समन्त्रकम् अर्घ्यं ददन् आम्रवृक्षेषु तत् क्षिपति। अनेन जलैः प्रतिदिनं वृक्षाः सिञ्चिताः वर्धन्ते, पितॄणामप्याशीः तेनावाप्यते। अत्र सान्तः श्लोकोऽयम्
एको वटुर्दर्भकुशाग्रपाणिर्वने वनैः सिञ्चति बालचूतान् ।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥