Saturday, 25 June 2016

संस्कृत-लोकोक्तिः-3 अन्ततोऽश्मापि जीर्यते

            अश्मा नाम पाषाणः, पर्वतः, शिला। अल्पः वा महान् वा पाषाणः सदा सुदृढो दृश्यते। तस्य कोऽपि ह्रासः, परिमाणे क्षतिः वा कदाचित् घटिष्यत इव न दृश्यते। अन्यवस्तूनि इव स जीर्णतां न प्राप्नोति इव भाति। किन्तु सामान्यदृष्टेः अगोचरः सन्, कालः तमपि जीर्णीकरोति। महत्कालं पश्चात् तस्य पाषाणस्य परिमाणे ह्रासं पश्यामः। तेनैव ज्ञायते, सर्वं वस्तु नाशशीलं नश्वरमेव भवति भूमौ इति। अत्र अश्मनः अपचयः वायुयोगमात्रेण क्रमेणैव भवति।
            कदाचित् प्रवाहे पतितः शिलाखण्डः जलेन प्रवहन् क्रमेण जीर्णः भवति। प्रवाहे तु भूम्या, जलेन च तस्य निरन्तरघर्षणं भवति। तेन घर्षणेन पूर्वं यः कठोरः, असमः, तीक्ष्णकोणः चाभवत्, सः अन्ततो गत्वा वृत्ताकारः, मृदुः, स्पर्शनयोग्यः च सम्पद्यते। सः सुन्दरः बालक्रीडनायोपयुक्तश्च भवति। यदि कोऽपि स्वस्य शारीरशक्तेः, दृढतायाश्च तुलनाम् अश्मना करोति, तर्हि एषा लोकोक्तिः स्मर्तव्या॥

संस्कृत-लोकोक्तिः -2 अक्के चेन्मधु विन्देत

                        अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्।
                        इष्टार्थस्य च संसिद्धौ को विद्वान् यत्नमाचरेत्॥

            अक्के, स्वकीये गृहकोणे एव यदि मधु प्राप्यते, तर्हि कः दूरं पर्वतं प्रति गत्वा तदर्थं यत्नं करोति? यदि किमपि अभिलषितं वस्तु समीपमेव लभ्यते, तदा कोऽपि तत्प्राप्तुं दूरं न गच्छति। यत्किमपि प्रयोजनं अल्पीयेन लाघवेन च प्रयत्नेन साध्यते, तर्हि तदर्थम् अयासप्रयासादिकं नावश्यकमिति अस्य आभाणकस्य अभिप्रायः।
            गृहे स्थितस्य वस्तुनः मूल्यं न परिगण्यते। तत् प्रति अवज्ञाभावः तिष्ठति मनःसु। महत्प्रयत्नेन प्राप्तस्य वस्तुनः एव महार्घत्वम् आरोप्यते। कदाचिद् गृहप्राङ्गणे स्थितः वृक्षविशेषः ओषधिः स्यात्। किन्तु आपणं गत्वा, धनं दत्त्वा, क्रीणनेनैव रोगनिवृत्तिः भवतीति जनाः विश्वसन्ति। ब्रह्मसाधनाय गुरुरावश्यक इति साधकः लोके सर्वत्र भ्रमति। कदाचित् स गुरुः स्वजनकः एव भवेत्। लौकिकविद्यास्वपि स्वकीयगृहे एव अग्रजः, अग्रजा वा साहाय्यकौ भवेताम्। तदापि बालकाय अध्यापकमानीय शुल्कं प्रदाय विद्या दीयते। नैतद् युक्तम्॥

संस्कृत-लोकोक्तिः-1 अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित्



                        अकामस्य क्रिया काचिद्दृश्यते नेह कर्हिचित् ।
                      यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम् ॥मनुस्मृतिः, २.४

            कामो नाम इच्छा। किमपि वस्तु आवश्यकमिति, किमपि लक्ष्यं साधनीयमिति पुरुषस्य मनसि जायमाना अभिलाषा कामः। स एव तद्वस्तुसाधनाय पुरुषं प्रवर्तयति। अकामः पुरुषः कार्यलेशेऽपि न प्रवर्तते। सः किमपि कार्यं कर्तुं न पारयति। यत्किञ्चित् कार्यं पुरुषः करोति, तत्सर्वं काममूलमेव जगति प्रचलति। अत्र जन्तुर्नाम जीवः, प्राणी इत्यर्थः। यः किमपि प्रयतनम् अकुर्वन् तिष्ठति, तस्य बुद्धिः जडा मन्दा च सम्पद्यते। प्रवृत्तिमार्गे कार्यसाधनाय कामः आवश्यकः। निवृत्तिमार्गे कामः त्याज्यः।
            प्रवृत्तिमार्गे पुरुषः कामयुक्तस्सन् कार्ये मग्नः भूत्वा पुनः कार्यं तु साध्नोति, परं तु तत्फलेन बद्धो भवति। तस्य शुभाशुभफलेन स अविमुक्तः न तिष्ठति। अतः विवेकशीलिनः कर्मण्येवाधिकारनियमं सुष्ठु जानन्ति। कामपूर्वकं कर्म पुरुषं बध्नातीति ज्ञात्वा कर्मानुतिष्ठति बुद्धिमान्। लोके कामासक्तभावं त्यक्त्वापि कार्यशीलः भवितुमर्हति। तस्य समस्तप्रयत्नेषु फलेच्छा विसृज्यते। अतः तस्य इहमपि परमपि अविकुण्ठिते तिष्ठतः॥